________________
रनाकरावतारिकायुक्तः । ४१ पतो यत्रैव विप्रतिपत्तिः, तदेवाऽप्रमाणमस्तु, न पुनः कर्तृमात्रस्मरणमपि।
"वेदस्याध्ययनं सर्व गुर्वध्ययनपूर्वकम् । वेदाध्ययनवाच्यत्वादधुनाऽध्ययनं यथा ॥ १ ॥ अतीतानागतौ कालौ वेदकारविवर्जितौ ।
कालत्वात् , तद्यथा कालो वर्तमानः समीक्ष्यते" ॥२॥ इति कारिकोक्ते वेदाध्ययनवाच्यत्वकालत्वे अपि हेतू , 'कुरङ्गशृङ्गभॉरं कुरङ्गाक्षीणां चेतः' इति वाक्याध्ययनं गुर्वध्ययनपूर्वकम् , एतद्वाक्याध्ययनवाच्यत्वात् , अधुनातनाध्ययनवत् ; अतीतानागतौ कालौ प्रक्रान्तवाक्यकर्तृवर्जितो, कालत्वात्, वर्तमानकालवत्, इतिवदप्रयोजकत्वात् , अनाकर्णनीयौ सकर्णानाम् । अथार्थापत्तेरपौरुषेयत्वनिर्णयो वेदस्य । तथाहि-संवादविसंवाददर्शनादर्शनाभ्यां तावदेष निःशेषपूरुषैः प्रामाण्येन निरणायि। तन्निर्णयश्चास्य पौरुषेयत्वे दुरापः । यतः
"शब्दे दोषोद्भवस्तावद् वक्त्रधीन इति स्थितिः । तदभावः कचित्तावद् गुणवद्वक्तकत्वतः ॥ तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसंभवात् । वेदे तु गुणवान् वक्ता निर्णेतुं नैव शक्यते । ततश्च दोषाभावोऽपि निर्णेतुं शक्यतां कथम् ? । वक्त्रभावे तु सुज्ञानो दोषाभावो विभाव्यते ॥
यस्माद्वक्तुरभावेन न स्युर्दोषा निराश्रयाः"। मी०लो०वा. ततः प्रामाण्यनिर्णयान्यथानुपपत्तेरपौरुषेयोऽयमिति । अस्तु तावदत्र कृपणपशुपरम्पराप्राणव्यपरोपणप्रगुणप्रचुरोपदेशापवित्रत्वादप्रमाणमेवैष इत्यनुत्तरोत्तरप्रकारः। प्रामाण्यनिर्णयेऽप्यस्य न साध्यसिद्धिः, विरुद्धत्वाद्, गुणवद्वक्तृकतायामेव वाक्येषु प्रामाण्यनिर्णयोपपत्तेः । पुरुषो हि यथा रागादिमान् मृषावादी, तथा सत्यशौचादिमानवितथवचनः समुपलब्धः । श्रुतौ तु तदुभयाभावे नैरर्थक्यमेव भवेत् । कथं वक्तुर्गुणित्वनिश्चयश्छन्दसीति चेत्, कथं पितृपितामहप्रपितामहादेरप्य