________________
प्रमाणनयतत्त्वालोकालङ्कार:
वणात्। द्वितीयस्तु स्यात् । न पुनस्तत्रोपदेशस्य प्रामाण्यम् , अस्य स्वार्थप्रथामात्रचरितार्थत्वात्। प्रतिपादकत्वेनैव प्रमाणानां प्रामाण्यात्। अन्यथा प्रवृत्ताविव तत्साध्यार्थेऽपि प्रामाण्यप्रसङ्गात् । प्रत्यक्षस्य च विवक्षितार्थवत् तत्साध्यार्थक्रियाऽपि प्रमेया भवेत् , तस्मात् पुरुषेच्छाप्रतिबद्धवृत्तिः प्रवृत्तिरस्तु।मावा भूत्,प्रमाणेन पदार्थपरिच्छेदश्चेत् चक्राणः, तावतैव प्रेक्षावतोऽपेक्षाबुद्धेः पर्यवसानात्, पुण्यं प्रामाण्यमस्यावसेयम्। यद्वा, अस्तु तस्मादत्र प्रतितव्यामत्यवगमात् कुशलोदर्केत्यादिवाक्यानां प्रामाण्यम् , किंतु तद्वदेव वेदे कर्तृप्रतिपादकागमस्यापि प्रामाण्यं प्रासाडीदेवेति सिद्ध आगमबाधोऽपि । यत्त कर्चस्मरणं साधनम् , तदविशेषणं सविशेषणं वा वर्येत । प्राक्तनं, तावत् पुराणकूपप्रासादारामविहारादिभिभिचारि, तेषां कर्जस्मरणेऽपि पौरुषेयत्वात् । द्वितीयं तु सम्प्रदायाव्यवच्छेदे सति कञस्मरणादिति व्यधिकरणासिद्धम् , कञस्मरणस्य श्रुतेः अन्यत्राश्रये पुंसि वर्त्तनात् । अथापौरुषेयी श्रुतिः; संप्रदायाव्यवच्छेदे सत्यस्मर्यमाणकर्तृकत्वात्, आकाशवत्, इत्यनुमानरचनायामनवकाशा व्यधिकरणासिद्धिः। मैवम् । एवमपि विशेषणे सन्दिग्धासिद्धतापत्तेः । तथाहि ।आदिमतामपि प्रासादादीनां सम्प्रदायो व्यवच्छिद्यमानो विलोक्यते, अनादेस्तु श्रुतेरव्यवच्छेदी सम्प्रदायोऽद्यापि विद्यत इति मृतकमुष्टिबन्धमन्वकार्षीत् ; तथा च कथं न सन्दिग्धासिद्धं विशेषणम् ?। विशेष्यमप्युभयासिद्धम् , वादिप्रतिवादिभ्यां तत्र कर्तुः स्मरणात् । ननु श्रोत्रियाः श्रुतौ कर्तारं स्मरन्तीति मृषोद्यम् , श्रोत्रियापशदाः खल्वमी इति चेत्, ननु यूयमानायमाम्नासिष्ट तावत्, ततो “यो वै वेदांश्च प्रहिणोति" इति, प्रजापतिः सोमं राजानमन्वसृजत् ततस्त्रयो वेदा अन्वसृजन्त" इति च स्वयमेव स्वस्य कर्तारं स्मरयन्तीं श्रुतिं विश्रुतामश्रुतामिव गणयन्तो यूयमेव श्रोत्रियापशदाः किं न स्यात ? । किंच। कण्वमाध्यंदिनतित्तिरिप्रभृतिमुनिनामाङ्किताः काश्चन शाखाः, तत्कृतत्वादेव, मन्वादिस्मृत्यादिवत् । उत्सनानां तासां कल्पादौ तैदृष्टत्वात्, प्रकाशितत्वाद्वा तन्नामचिह्नेऽनादौ काले ऽनन्तमुनिनामाङ्कितत्वं तासां स्यात् । जैनाश्च कालासुरमेतत्कर्तारं स्मरन्ति । कर्तृविशेषे विप्रतिपत्तेरप्रमाणमेवैतत्स्मरणमिति चेत् । नैवम्।