________________
रत्नाकरावतारिकायुक्तः। पत् पूत्कुर्वत्सु कोलाहलममी कुर्वन्तौति प्रत्यक्षं प्रादुरस्ति, तेन चापौरुषेयत्वपक्षो बाध्यते । अभिव्यक्तिसद्भावादेवेयं प्रतीतिरिति चेत्, तर्हि हंसपक्षादिहस्तकेष्वपि किं नेयं तथा ? इति तेऽपि नित्याः स्युः । वर्णयिष्यमाणवर्णव्यक्तिव्यपाकरणं चेहाप्यनुसन्धानीयम् । श्रुतिः पौरुपेयी, वर्णाद्यात्मकत्वात् , कुमारसंभवादिवत् , इत्यनुमानबाधः । पुरुषो हि परिभाव्याभिधेयभावस्खभावं तदनुगुणां ग्रन्थवीथीं प्रथ्नाति, तदभावे कौतस्कुतीयं संभवेत् । यदि हि शङ्खसमुद्रमेघादिभ्योऽपूरुषेभ्योऽपि कदाचित् तदात्मकं वाक्यमुपलभ्येत, तदाऽत्रापि संभाव्येत, नचैवम् । अथ वाद्यात्मकत्वमात्रं हेतूचिकीर्षितं चेत्, तदानीमप्रयोजकम् , वल्मीकस्य कुलालपूर्वकत्वे साध्ये मृद्विकारत्ववत् । अथ लौकिकश्लोकादिविलक्षणं तत् तर्हि विरुद्धम् ; साधनशून्यं च कुमारसंभवादिनिदर्शनम् , तत्रैव साध्ये विशिष्टमृद्विकारत्ववत् , कूटदृष्टान्तवच्चेति चेत् । नैतच्चतुरस्रम् । यतस्तन्मात्रमेव हेतुः; न चाप्रयोजकम् , विशिष्टवर्णाद्यात्मकत्वस्यैव क्वाप्यसंभवाद् । दुःश्रवदुर्भणत्वादेस्तु श्रुतिविशेषस्य
"नांष्ट्रास्त्वाष्ट्रारिराष्ट्रे न, भ्राष्ट्र नादंष्ट्रिणो जनाः ।
धार्तराष्ट्राः सुराष्ट्रे न, महाराष्ट्रे तु नोष्ट्रिणः” ॥१॥ इत्यादौ लौकिकश्लोके सविशेषस्य सद्भावात् । अभ्यधिष्महि च“यत् कौमारकुमारसंभवभवाद् वाक्यान्न किञ्चित् कचित् ।
वैशिष्ट्यं श्रुतिषु स्थितं तत इमाः स्युः कर्तृशून्याः कथम्” इति । "प्रजापतिर्वेदमेकमासीत् , नाहरासीत् , नरात्रिरासीत् ;स तपोऽतप्यत, तस्मात्तपनः; तपनाच्चत्वारो वेदा अजायन्त" इति खकर्तृप्रतिपादकागमबाधः । ननु नायमागमः प्रमाणम् , भूतार्थाभिधायकत्वात् , कार्य एव ह्यर्थे वाचांप्रामाण्यम् , अन्वयव्यतिरेकाभ्यां लोके कार्यान्वितेषु पदार्थेषु पदानां शक्त्यवगमादिति चेत् । तदश्लीलम् । कुशलोदर्कसम्पर्ककर्कशः साधूपास्याप्रसङ्ग इत्यादेर्भूतार्थस्यापि शब्दस्य लोके प्रयोगोपलम्भात् । अथात्रापि कार्यार्थतैव, तस्मादत्र प्रवर्तितव्यमित्यवगमादिति चेत् , स तवगम औपदेशिक औपदेशिकार्थकृतो वा भवेत् । न तावदाद्यः, तथाविधोपदेशाश्र