________________
प्रमाणनयतत्वालोकालङ्कार:
लोके सामान्यजनरूपे भवो लौकिकः।लोकादुत्तरः प्रधानं मोक्षमागोपदेशकत्वाल्लोकोत्तरः ॥ ६॥
तावेव वदन्तिलौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः ॥ ७ ॥
प्रथमादिशब्देन जनन्यादिग्रहः । द्वितीयादिशब्देन तु गणधरादिप्रहणम् । ये तु श्रोत्रियाः श्रुतेरपौरुषेयत्वे पौरुषं स्फोरयांचक्रुः, ते कीदृशीं श्रुतिममूमास्थाय; किं वर्णरूपाम् , आनुपूर्वीरूपांवा। यदि प्राचिकीम् , तदस्पष्टम् , उपरिष्टात् “अकारादिः पौद्गलिको वर्णः' इत्यत्र वित्रास्यमानत्वादस्याः । अथोदीचीनाम् , तर्हि तत्र तत्प्रतीतौ प्रत्यक्षम् , अनुमानम् , अापत्तिः, आगमो वा प्रमाणं प्रणिगद्येत । न प्रत्यक्षम् , अस्य तादात्विकभावस्वभावावभासमात्रचरित्रपवित्रत्वात् । __“सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना” इति वचनात् ।
यैव श्रुतिर्मया प्रागध्यगायि, सैवेदानीमपीति प्रत्यभिज्ञाप्रत्यक्षमणं लक्ष्यत एवास्याः सदात्वमवद्योतयदिति चेत् , नन्वसौ "समुदयमात्रमिदं कलेवरम्" इत्यादिलोकायतागमेष्वप्येकरसैवास्तीति तेऽपि तथा स्युः, तथा च तत्पठितानुष्ठाननिष्ठा पटिष्ठता विप्राणामपि प्राप्नोति, अन्यथा प्रत्यवायसंभवात् । अथात्रेयमभिधानानन्तरानुपलम्भेन बाध्यते, किं न श्रुतावपि ? । अभिव्यक्त्यभावसंभवी तदानीमनुपलम्भः श्रुतौ नाभावनिबन्धन इति चेत् , किं न नास्तिकसिद्धान्तेऽप्येवम्, इति सकलं समानम् । किंच । अनुभवानुचरणचतुरं प्रत्यभिज्ञानम् , अनुभवश्च प्रायेण प्रत्यभिज्ञां ताद्भविकीम् , जातिस्मृत्यादिमतः कस्यापि कतिपयभवविषयां च प्रभावयितुं प्रभुः; इति कथमनादौ काले केनापि नेयं श्रुतिः सूत्रिता, इति प्रकटयितुं पटीयसीयं स्यात् ? । तन्न तत्र प्रत्यक्षं क्षमते। नाप्यनुमानम् , तद्धि कञस्मरणम् , वेदाध्ययनवाच्यत्वम् , कालवं वा । तत्रैतेषु सर्वेष्वपि प्रत्यक्षानुमानागमबाधितत्वं तावत्पक्षदोषः । तत्र प्रत्यक्षबाधः तावत् , तथाविधमठपीठिकाप्रतिष्ठशठबठरावयूद्गातृहोतृप्रायप्रचुरखण्डिकेषु यजुःसामर्च उच्चस्तरां युग