________________
रत्नाकरावतारिकायुक्तः ।
३७
बन्धद्वारेण अर्थप्रत्यायकत्वोपपत्तेः । एतच्च " स्वाभाविक सामर्थ्यसमयाभ्यां-” इत्यादि सूत्रे निर्णेष्यते ॥ २ ॥
उदाहरन्ति -
समस्त्यत्र प्रदेशे रत्ननिधानं सन्ति रत्नसानुप्रभृतयः ॥३॥
वक्ष्यमाणलौकिकजनकादिलोकोत्तरतीर्थकराद्यपेक्षया क्रमेणोदाहर
णोभयी ॥ ३ ॥
आप्तस्वरूपं प्ररूपयन्ति -
अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्तः ॥ ४॥
आप्यते प्रोक्तोऽर्थोऽस्मादित्याप्तः । यद्वा, आप्ती रागादिदोषक्षयः सा विद्यते यस्येत्यर्शआदित्वादति आप्तः । जानन्नपि हि रागादिमान् पुमानन्यथाऽपि पदार्थान् कथयेत्, तद्व्यवच्छित्तये यथाज्ञानमिति । तदुक्तम्
" आगमो ह्याप्तवचनमाप्तिं दोषक्षयं विदुः ।
क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद्धेत्वसम्भवात् ” ॥ १ ॥ इति । अभिधानं च ध्वनेः परम्परयाऽप्यत्र द्रष्टव्यम् । तेनाक्षरविलेखनद्वारेण, अङ्कोपदर्शनमुखेन, करपल्लव्यादिचेष्टाविशेषवशेन वा शब्दस्मरणाद्यः परोक्षार्थविषयं विज्ञानं परस्योत्पादयति, सोऽप्याप्त इत्युक्तं भवति । स च स्मर्यमाणः शब्द आगम इति ॥ ४ ॥ कस्मादमूदृशस्यैवाप्तत्वमित्याहु:
तस्य हि वचनमविसंवादि भवति ॥ ५ ॥
यो हि यथावस्थिताभिधेयवेदी; परिज्ञानानुसारेण तदुपदेशकुशलश्च भवति तस्यैव यस्माद्वचनं विसंवादशून्यं संजायते । मूढवञ्चकवचने विसंवादसंदर्शनात् । ततो यो यस्यावश्वकः, स तस्याप्त इति ऋष्यार्यम्ले - च्छसाधारणं वृद्धानामाप्तलक्षणमनूदितं भवति ॥ ५ ॥
आप्तभेदौ दर्शयन्ति
स च द्वेधा लौकिको, लोकोत्तरश्च ॥ ६ ॥