________________
३६
प्रमाणनयतत्त्वालोकालङ्कारः
पादने पटीयान् ; नच नालिकेरद्वीपवासिनः प्रागियं प्रादुरासीदिति कथं तस्य तत्प्रतीतिः स्यात् ।। अथैतादृशसंवेदनं व्याप्तिसंवेदनरूपमेव, तदपेक्षायां च शब्दार्थज्ञानमनुमानमेव भवेदिति चेत्, कूटाकूटकार्षापणविवेकप्रत्यक्षमपि किन्न तथा ?। तत्रापि तथाविधोपदेशस्य व्याप्त्युल्लेखखरूपत्वात् । अथ व्याप्तेः प्राक् प्रवृत्तावपि तदानीमभ्यासदशापन्नत्वेनानपेक्षणात् प्रत्यक्षमेवैतत् , तदपेक्षायां तु भवत्येवैतदनुमानम् ,कूटोऽयं कार्षापणः, तथाविधविशेषसमन्वितत्वात् , प्राक्प्रेक्षितकार्षापणवत्, इति चेत्, एतदेव समस्तमन्यत्रापि तुल्यं विदाङ्करोतु भवान् । न खल्वभ्यासदशायां कोऽपि व्याप्तिं शब्देऽप्यपेक्षते, सहसैव तज्ज्ञानोत्पत्तेः। अनभ्यासे तु को नाम नानुमानतां मन्यते ? यथा कस्यचिद्विस्मृतसङ्केतस्य कालान्तरे पनसशब्दश्रवणे; यः पनसशब्दः स आमूलफलेग्रहिविटपिविशेषवाचकः, यथा यज्ञदत्तोक्तः प्राक्तनः, तथा चायमपि देवदत्तोक्त इति । एवं च पक्षैकदेशे सिद्धसाध्यता, शब्दोऽनुमानमित्यत्र सकलवाचकानां पक्षीकृतानामेकदेशस्यानुमानरूपतया स्वीकृतत्वात् । यस्त्वागमरूपतया स्वीकृतः शब्दः, तत्राभ्यासदशापन्नत्वेन व्याप्तिग्रहणापेक्षैव नास्ति । अन्यथा कूटाकूटकार्षापणप्रत्यक्षेण व्यभिचारापत्तेः । तथा च हेतोरसिद्धिः। एवं च (शब्दत्वस्य व्याप्तिग्रहणानपेक्षत्वे सिद्धे) विवादास्पदः शब्दो नानुमानम् , तद्विभिन्नसामग्रीकत्वात् , कूटाकूटकार्षापणविवेकप्रत्यक्षवत्, इति सिद्धम् । किंच । वाचामनुमानमानतामातन्वानोऽसौ कथं पक्षधर्मतादिकमादर्शयेत् ?। चैत्रः ककुदादिमदर्थविवक्षावान् , गोशब्दोच्चारणकर्तृत्वात् , अहमिव; इतीत्थमिति चेत्, नन्वतो विवक्षामात्रस्यैव प्रतीतिः स्यात् , तथा च कथमर्थे प्रवृत्तिर्भवेत् ? । विवक्षातोऽर्थसिद्धिरिति चेत् । मैवम् । अस्यास्तव्यभिचारात्, अनाप्तानां अन्यथाऽपि तदुपलब्धेः । अथ यथा'प्रोक्ताच्छब्दात् तथाऽऽप्तविवक्षाऽतोऽझूणैवार्थसिद्धिर्भविष्यतीति चेत् । सत्यम् । किन्त्वप्रतीतिपराहतैवेयं परम्परा, शब्दश्रुतौ सत्यां प्रतीत्यन्तराव्यवहितस्यैव अर्थस्य संवेदनात्, यथा लोचनव्यापारे सति रूपस्य । अपि च। अप्रातीतिकैतादृक्कल्पनामहापातकं क्रियतां नाम, यदि नान्या गतिः स्यात् , अस्ति चेयं, शब्दस्य स्वाभाविकवाच्यवाचकभावसं