________________
अर्हम् अथ चतुर्थः परिच्छेदः।
संप्रति परोक्षस्य पञ्चमप्रकारमागमाख्यं बहु वक्तव्यत्वात् परिच्छेदान्तरेणोपदिशन्ति
आप्तवचनादाविर्भूतमर्थसंवेदनमागमः ॥१॥ आप्तः प्रतिपादयिष्यमाणस्वरूपः, तद्वचनाज्जातमर्थज्ञानमागमः। आगम्यन्ते मर्यादयाऽवबुध्यन्तेऽर्थी अनेनेत्यागमः ॥१॥
ननु यद्यर्थसंवेदनमागमः, तर्हि कथमाप्तवचनात्मकोऽसौ सिद्धान्तविदां प्रसिद्ध इत्याशङ्कयाऽऽहुः
उपचारादाप्तवचनं च ॥२॥ . . प्रतिपाद्यज्ञानस्य ह्याप्तवचनं कारणमिति कारणे कार्योपचारात् तदप्यागम इत्युच्यते, अनन्योपायताख्यापनार्थम् । अत्रैवं वदन्ति काणादाःशब्दोऽनुमानम् , व्याप्तिग्रहणबलेनार्थप्रतिपादकत्वाद्, धूमवत्, इति । तत्र हेतोरामुखे कूटाकूटकार्षापणनिरूपणप्रवणप्रत्यक्षेण व्यभिचारः, तथाभूतस्यापि तत्प्रत्यक्षस्यानुमानरूपताऽपायात् । आः ! कथं प्रत्यक्षं नाम भूला व्याप्तिग्रहणपुरस्सरं पदार्थ परिच्छिन्द्यात् ? उन्मीलितं हि चेलो; चनम् , जातमेव परीक्षकाणां कूटाकूटविवेकेन प्रत्यक्षमिति क व्याप्तिग्रहणावसर इति चेत्, एतदेवान्यत्रापि प्रतीहि । तथाहि ।समुच्चारितश्चेद् ध्वनिः; जातमेव जनस्य शब्दार्थसंवेदनमिति क व्याप्तिग्रहणावकाश इति। एवं तर्हि नालिकरद्वीपवासिनोऽपि पनसशब्दात् तदर्थसंवित्तिः स्यादिति चेत्, किं नापरीक्षकस्यापि कार्षापणे कूटाकूटविवेकेन प्रत्यक्षोत्पत्तिः ? । अथ यावानेतादृशविशेषसमाकलितकलेवरः कार्षापणः, तावानशेषः कूटोऽकूटो वा निष्टकनीयस्त्वया; इत्युपदेशसाहायकापेक्षं चक्षुरादि तद्विवेके कौशलं कलयति; नचापरीक्षकस्यायं प्राक् प्रावत्तिष्टेति चेत् ,तर्हि शब्दोऽपि यावान् पनसशब्दस्तावान् पनसार्थवाचक इति संवित्तिसहायः तत्प्रति