________________
३४
प्रमाणनयतत्वालोकालङ्कारः
विरुद्धस्वभावानुपलब्धिर्यथा वस्तुजातमनेकान्तात्मकमेकान्तस्वभावानुपलम्भात् ॥१०७॥
वस्तुजातमन्तरङ्गो बहिरङ्गश्च विश्ववर्ती पदार्थसार्थः । अम्यते गम्यते निश्चीयत इत्यन्तो धर्मः, न एकोऽनेकः, अनेकश्चासावन्तश्चानेकान्तः । स आत्मा स्वभावो यस्य वस्तुजातस्य तदनेकान्तात्मकं सदसदाद्यनेकधर्मात्मकमित्यर्थः । अत्र हेतुः एकान्तस्वभावस्य सदसदाद्यन्यतरधर्मावधारणस्वरूपस्यानुपलम्भादिति । अत्र विधेयेनानेकान्तात्मकत्वेन सह विरुद्धः सदाद्येकान्तस्वभावः, तस्यानुपलब्धिरसी ॥१०७॥ विरुद्धव्यापकानुपलब्धिर्यथा अस्त्यत्र च्छाया, औष्ण्यानुपलब्धेः ॥१०८॥
विधेयया छायया विरुद्धस्तापः, तदूव्यापकमौष्ण्यम्, तस्यानुपलब्धिरियम् ॥१०८॥
विरुद्ध सहचरानुपलब्धिर्यथा अस्त्यस्य मिथ्याज्ञानं, सम्यग्दर्शनानुपलब्धेः ॥१०९॥
विधेयेन मिथ्याज्ञानेन विरुद्धं सम्यग्ज्ञानम्, तत्सहचरं सम्यग् - दर्शनम्, तस्यानुपलब्धिरेषा ।। १०९ ।।
इति प्रमाणनयत्तत्त्वालोकालङ्कारे श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्य लघुटीकायां स्मरणप्रत्यभिज्ञानतर्कानुमानस्वरूपनिर्णयस्तृतीयः परिच्छेदः ॥