SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ रवाकरावतारिकायुक्तः। इयं च सप्तधाऽप्यनुपलब्धिः साक्षादनुपलम्भद्वारेण, परम्परया पुनरेषा सम्भवन्त्यत्रैवाऽन्तर्भावनीया । तथाहि । नास्ति एकान्तनिरन्वयं तत्त्वम् , तत्र क्रमाक्रमानुपलब्धेरिति या कार्यव्यापकानुपलब्धिः, निरन्वयतत्त्वकार्यस्यार्थक्रियारूपस्य यध्यापकं क्रमाक्रमरूपं तस्यानुपलम्भसद्भावात् , सा व्यापकानुपलब्धावेव प्रवेशनीया । एवमन्या अपि यथासम्भवमास्वेव विशन्ति ॥१०२॥ विरुद्धानुपलब्धि विधिसिद्धौ भेदतो भाषन्तेविरुद्धानुपलब्धिस्तु विधिप्रतीतौ पञ्चधा ॥१३॥ तानेव भेदानाहुःविरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलम्भ भेदात् ॥ १०४॥ विधेयेनार्थेन विरुद्धानां कार्यकारणस्वभावव्यापकसहचराणामनुपलम्भा अनुपलब्धयस्तैर्भेदो विशेषस्तस्मात् । ततश्च विरुद्धकार्यानुपलब्धिः, विरुद्धकारणानुपलब्धिः, विरुद्धस्वभावानुपलब्धिः, विरुद्धव्यापकानुपलब्धिः, विरुद्धसहचरानुपलब्धिश्चेति ॥१०४॥ क्रमेणैतासामुदाहरणान्याहुःविरुद्धकार्यानुपलब्धियथाऽत्र शरीरिणि रोगातिशयः समस्ति, नीरोगव्यापारानुपलब्धेः ॥१०५॥ विधेयस्य हि रोगातिशयस्य विरुद्धमारोग्यम् , तस्य कार्य विशिष्टो व्यापारः,तस्यानुपलब्धिरियम् ॥१०॥ विरुद्धकारणानुपलब्धिर्यथा विद्यतेऽत्र प्राणिनि कष्टमिष्ट संयोगाभावात् ॥१०६॥ अत्र विधेयं कष्टम् , तद्विरुद्धं सुखम् , तस्य कारणं इष्टसंयोगः, तस्यानुपलब्धिरेषा ॥ १०६॥
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy