SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ३२ प्रमाणनयतवालोकालकार: लक्षणप्राप्तस्य तत्स्वभावस्यानुपलम्भात् ॥१६॥ • उपलब्धिलक्षणप्राप्तस्येति उपलब्धिर्ज्ञानम् , तस्य लक्षणानि कारणानि चक्षुरादीनि, तैर्युपलब्धिलक्ष्यते जन्यत इति यावत् तानि प्राप्तः; जनकलेनोपलब्धिकारणान्तर्भावात् स तथा दृश्य इत्यर्थस्तस्यानुपलम्भात्॥१६॥ व्यापकानुपलब्धिर्यथा नास्त्यत्र प्रदेशे पनसः पादपानु पलब्धेः ॥९॥ कार्यानुपलब्धिर्यथा नास्त्यत्राप्रतिहतशक्तिकं बीजमङ्कु रानवलोकनात् ॥९॥ अप्रतिहतशक्तिकत्वं हि कार्य प्रत्यप्रतिबद्धसामर्थ्यत्वं कथ्यते । तेन बीजमात्रेण न व्यभिचारः ॥९८॥ कारणाऽनुपलब्धिर्यथा न सन्त्यस्य प्रशमप्रभृतयो भावा स्तत्त्वार्थश्रद्धानाभावात् ॥१९॥ - प्रशमप्रभृतयो भावा इति प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणजीवपरिणामविशेषाः। तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तस्याऽभावः कुतोऽपि देवद्रव्यभक्षणादेः पापकर्मणः सकाशात्सिद्ध्यस्तत्त्वार्थश्रद्धानकार्यभू. तानां प्रशमादीनामभावं गमयति ॥९९॥ पूर्वचरानुपलब्धिर्यथा नोद्गमिष्यति मुहूर्त्तान्ते स्वाति नक्षत्रं चित्रोदयादर्शनात् ॥१०॥ उत्तरचरानुपलब्धियथा नोदगमत् पूर्वभद्रपदा मुहू. रीत्पूर्वमुत्तरभद्रपदोद्गमानवगमात् ॥११॥ सहचरानुपलब्धिर्यथा नास्त्यस्य सम्यग्ज्ञानं सम्यग् दर्शनानुपलब्धेः ॥१०॥
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy