SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ - रखाकरापतारिकायुक्तः। ३१ दुःखकारणमस्ति सुखोपलम्भादिति । साक्षादन सुखदुःखयोर्विरोधः । प्रतिषेध्यस्वभावेन तु दुःखकारणेन परम्परया। व्यापकविरुद्धोपलब्धिर्यथा न सन्निकर्षादिः प्रमाणमज्ञानत्वादिति । साक्षादत्र ज्ञानत्वाज्ञानत्वयोविरोधः। प्रतिषेध्यखभावेन तु ज्ञानत्वव्याप्येन प्रामाण्येन व्यवहितः । कारणविरुद्धोपलब्धिर्यथा नासौ रोमहर्षादिविशेषवान् समीपवर्तिपावकविशेषादिति । अत्र पावकः साक्षाद्विरुद्धः शीतेन । प्रतिषेध्यस्वभावेन तु रोमहर्षादिना शीतकार्येण पारम्पर्येण । ये तु नास्त्यस्य हिमजनितरोमहर्षादिविशेषो धूमात्, प्रतिषेध्यस्य हि रोमहर्षादिविशेषस्य कारणं हिमंतद्विरुद्धोऽग्निस्तत्कायै धूम इत्यादयः कारणविरुद्धकार्योपलब्ध्यादयो विरुद्धोपलब्धेर्भेदाः । ते यथासंभवं विरुद्धकार्योपलब्ध्यादिष्वन्तर्भावनीयाः ॥१२॥ सम्प्रत्यनुपलब्धिं प्रकारतः प्राहुःअनुपलब्धेरपि द्वैरूप्यम्, अविरुद्धानुपलब्धिविरुद्धा नुपलब्धिश्च ॥१३॥ अविरुद्धस्य प्रतिषेध्येनार्थेन सह विरोधमप्राप्तस्यानुपलब्धिरविरुद्धाऽनुपलब्धिः । एवं विरुद्धानुपलब्धिरपि ॥१३॥ सम्प्रत्यविरुद्धानुपलब्धेर्निषेधसिद्धौ प्रकारसङ्ख्यामाख्यान्तितत्राविरुद्धानुपलब्धिः प्रतिषेधावबोधे सप्तप्रकारा ॥९॥ अमूनेव प्रकारान् प्रकटयन्तिप्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारणपूर्वच रोत्तरचरसहचराणामनुपलब्धिः ॥१५॥ ___एवं च स्वभावानुपलब्धिः, व्यापकानुपलब्धिः, कार्यानुपलब्धिः, कारणानुपलब्धिः, पूर्वचरानुपलब्धिः, उत्तरघरानुपलब्धिः, सहचरानुपलब्धिश्चेति ॥९५॥ क्रमेणामूरुदाहरन्तिस्वभावानुपलब्धिय॑था नास्त्यत्र भूतले कुम्भ उपलब्धि
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy