________________
प्रमाणनयतत्वालोकालकार:च प्रतिषेध्यः क्रोधाद्युपशमः, तद्विरुद्धस्तदनुपशमः, तत्कार्यस्य वदनविकारादेरुपलब्धिः ॥८॥ विरुद्धकारणोपलब्धिर्यथा नास्य महर्षेरसत्यं वचः समस्ति ... रागद्वेषकालुष्याऽकलङ्कितज्ञानसंपन्नत्वात् ॥८९॥ - प्रतिषेध्येन ह्यसत्येन सह विरुद्धं सत्यम् , तस्य कारणं रागद्वेषकालुष्याकलङ्कितज्ञानम्। तत् कुतश्चित्सूक्ताभिधानादेः सिद्ध्यत् सत्य साधयति । तच्च सिद्ध्यदसत्यं प्रतिषेधति ॥८९॥ विरुद्धपूर्वचरोपलब्धिर्यथा नोद्गमिष्यति मुहूर्तान्ते
____ पुष्यतारा रोहिण्युद्गमात् ॥९॥ प्रतिषेध्योऽत्रपुष्यतारोद्गमः, तद्विरुद्धो मृगशीर्षोदयः, तदनन्तरं पुनर्वसूदयस्यैव भावात् । तत्पूर्वचरो रोहिण्युदयस्तस्योपलब्धिः ॥१०॥ . विरुद्धोत्तरचरोपलब्धिर्यथा नोदगान्मुहूर्तापूर्व
मृगशिरः पूर्वफल्गुन्युदयात् ॥९॥ प्रतिषेध्योऽत्र मृगशीर्षोदयः, तद्विरुद्धो मघोदयः, अनन्तरमाद्रोंदयादेरेव भावात् । तदुत्तरचरः पूर्वफल्गुन्युदयस्तस्योपलब्धिः ॥९१॥
विरुद्धसहचरोपलब्धिर्यथा नास्त्यस्य मिथ्याज्ञानं .. सम्यग्दर्शनात् ॥१२॥
प्रतिषेध्येन हि मिथ्याज्ञानेन सह विरुद्धं सम्यग्ज्ञानम् , तत्सहचरं सम्यग्दर्शनम् । तच्च प्राण्यनुकम्पादेः कुतश्चित् लिङ्गात्प्रसिद्ध्यत्सहचरं सम्यग्ज्ञानं साधयति । इयं च सप्तप्रकाराऽपि विरुद्धोपलब्धिः प्रतिषेध्येनार्थेन साक्षाद्विरोधमाश्रित्योक्ता, परम्परया विरोधाश्रयणेन वनेकप्रकारा विरुद्धोपलब्धिः संभवन्त्यऽत्रैवाभियुक्तैरन्तीवनीया । तद्यथा कार्यविरुद्धोपलब्धिापकविरुद्धोपलब्धिः कारणविरुद्धोपलब्धिरिति त्रयं खभावविरुद्धोपलब्धौ । तत्र , कार्यविरुद्धोपलब्धिर्यथा नात्र देहिनि