________________
रत्नाकरावतारिकायुक्तः । २९ - एतामुदाहरन्तियथा नास्त्येव सर्वथैकान्तोऽनेकान्तस्योपलम्भात् ॥५॥ - स्पष्टो हि सर्वथैकान्तानेकान्तयोः साक्षाद्विरोधो भावाऽभावयोरिव। नन्वयमनुपलब्धिहेतुरेव युक्तः "यावान् कश्चित् प्रतिषेधः स सर्वोऽनुपलब्धेः” इति वचनादिति चेत्। तन्मलीमसम् । उपलम्भाभावस्यात्र हेतुत्वेनानुपन्यासात् । अथ विरुद्धयोः सर्वथैकान्तानेकान्वयोर्वह्निशीतस्पर्शयोरिव प्रथमं विरोधः स्वभावानुपलब्ध्या प्रतिपन्न इत्यनुपलब्धिमूलत्वात्स्वभावविरुद्धोपलब्धेरनुपलब्धिरूपत्वं युक्तमेवेति चेत्, तर्हि साध्यधमिणि भूधरादौ, साधने च धूमादावध्यक्षीकृते सतीदमप्यनुमानं प्रवतत इति प्रत्यक्षमूलत्वादिदमपि प्रत्यक्षं किं न स्यात् ? इति ॥८५॥ . विरुद्धोपलब्धेराद्यप्रकारं प्रदर्य शेषानाख्यान्ति
प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षट् ॥८६॥
प्रतिषेध्येनार्थेन सह ये साक्षाद्विरुद्धास्तेषां ये व्याप्तादयो व्याप्यकार्यकारणपूर्वचरोचरचरसहचरास्तेषामुपलब्धयः षड् भवन्ति । विरुद्धव्याप्तोपलब्धिः, विरुद्धकार्योपलब्धिः, विरुद्धकारणोपलब्धिः, विरुद्धपूर्वचरोपलब्धिः, विरुद्धोत्तरचरोपलब्धिः, विरुद्धसहचरोपलब्धिश्चेति ॥८६॥ क्रमेणासामुदाहरणान्याहु:विरुद्धव्याप्तोपलब्धिर्यथा नास्त्यस्य पुंसस्तत्त्वेषु
निश्चयस्तत्र सन्देहात् ॥८॥ अत्र जीवादितत्त्वगोचरो निश्चयः प्रतिषेध्यः, तद्विरुद्धश्चानिश्चयः, तेन व्याप्तस्य सन्देहस्योपलब्धिः ॥८॥ विरुद्धकार्योपलब्धिर्यथा न विद्यतेऽस्य क्रोधाद्यप
__शान्तिर्वदनविकारादेः ॥८॥ वदनविकारस्ताम्रतादिः, आदिशब्दादधरस्फुरणादिपरिग्रहः । अत्र