________________
२८ प्रमाणनयतत्वालोकालकार:___ साध्येनाऽविरुद्धस्योपलब्धिरिति पूर्वसूत्रादिहोत्तरत्र चानुवर्तनीयम् ॥ ८ ॥ भविष्यति वर्ष तथाविधवारिवाहविलोकनादिति
कारणस्य ॥ ७९ ॥ तथाविधेति सातिशयोन्नतत्वादिधर्मोपेतत्वं गृह्यते ॥७९॥ उदेष्यति मुहूर्त्तान्ते तिष्यतारकाः पुनर्वसूदयदर्श
नादिति पूर्वचरस्य ॥ ८ ॥ तिष्यतारकेति पुष्यनक्षत्रम् ॥८॥ उदगुर्मुहीत्पूर्व पूर्वफल्गुन्य उत्तरफल्गुनीनामुद्ग
मोपलब्धेरित्युत्तरचरस्य ॥ ८१ ॥ अस्तीह सहकारफले रूपविशेषः समाखाद्यमानर- सविशेषादिति सहचरस्य ॥ ८२ ॥
इयं च साक्षात् षोढाऽविरुद्धोपलब्धिरुक्ता । परम्परया पुनः संभवन्तीयमत्रैवान्तर्भावनीया। तद्यथा, कार्यकार्याऽविरुद्धोपलब्धिः कार्याविरुद्धोपलब्धौ । अभूदन कोशः कलशोपलम्भात् इति। कोशस्य हि कार्य कुशूलस्तस्य चाविरुद्ध कार्य कुम्भ इत्येवमन्या अप्यत्रैवान्तर्भावनीयाः ॥८॥ ___ अधुना विरुद्धोपलब्धिभेदानाहुःविरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्तप्रकारा ॥३॥ प्रथमप्रकारं प्राक् प्रकाशयन्ति
तत्राद्या खभावविरुद्धोपलब्धिः ॥४॥ प्रतिषेध्यस्यार्थस्य यः स्वभावः स्वरूपम् , तेन सह यत् साक्षाद् विरुद्धम् , तस्योपलब्धिः स्वभावविरुद्धोपलब्धिः ॥ ८४॥