________________
रवाकरावतारिकायुक्तः। सहचरहेवोरपि स्वभावकार्यकारणेषु नान्तर्भाव इति दर्शयन्तिसहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः, सहोत्पादेन तदुत्पत्तिविपत्तेश्व, सहचरहेतोरपि ।
प्रोक्तेषु नानुप्रवेशः ॥ ७६ ॥ यदि हि सहसंचरणशीलयोर्वस्तुनोस्तादात्म्यं स्यात् , तदा परस्परपरिहारेण स्वरूपोपलम्भो न भवेत् । अथ तदुत्पत्तिः, तदा पौर्वापर्येणोत्पादप्रसङ्गात् सहोत्पादो न स्यात् । न चैवम् । ततो नास्य प्रोक्तेषु स्वभावकार्यकारणेष्वन्तर्भावः ॥ ७६॥
इदानीं मन्दमतिव्युत्पत्तिनिमित्तं साधर्म्यवैधाभ्यां पञ्चावयवां व्याप्याविरुद्धोपलब्धिमुदाहरन्तिध्वनिः परिणतिमान् प्रयत्नानन्तरीयकत्वात ,यः प्रयत्नानन्तरीयकः स परिणतिमान् , यथा स्तम्भो, यो वान परि. णतिमान् स न प्रयत्नानन्तरीयको, यथा वान्ध्येयः; प्रय. नानन्तरीयकश्च ध्वनिः, तस्मात्परिणतिमानिति व्याप्यस्य साध्येनाऽविरुद्धस्योपलब्धिः साधर्म्यण वैधय॒णच॥७७॥ ___ अत्र ध्वनिः परिणतिमानिति साध्यधर्मविशिष्टधर्म्यभिधानरूपा प्रतिज्ञा । प्रयत्नानन्तरीयकत्वादिति हेतुः । यः प्रयत्नानन्तरीयक इत्यादी तु व्याप्तिप्रदर्शनपूर्वी साधर्म्यवैधाभ्यां स्तम्भवान्ध्येयरूपौ दृष्टान्तौ । प्रयत्नानन्तरीयकश्च ध्वनिरित्युपनयः। तस्मात्परिणतिमानिति निगमनम् । यद्यपि व्याप्यत्वं कार्यादिहेतूनामप्यस्ति, साध्येन व्याप्यत्वात् । तथापि तन्नेह विवक्षितम् , किन्तु साध्येन तदात्मीभूतस्याकार्यादिरूपस्य प्रयत्नानन्तरीयकत्वादेः स्वरूपमित्यदोषः ॥ ७७॥
अथ कार्याऽविरुद्धोपलब्ध्यादीनुदाहरन्तिअस्त्यत्र गिरिनिकुञ्जे धनञ्जयो धूमसमुपलम्भादिति
कार्यस्य ॥ ७८ ॥