________________
प्रमाणनयतत्वालोकालकार:. इदमेव भावयन्तिस्वव्यापारापेक्षिणी हि कार्य प्रति पदार्थस्य कारणत्वव्य
वस्था, कुलालस्येव कलशं प्रति ॥७३॥ ___ अन्वयव्यतिरेकावसेयो हि सर्वत्र कार्यकारणभावः । तौ च कार्यस्य कारणव्यापारसव्यपेक्षावेव युज्यते । कुम्भस्येव कुम्भकारव्यापारस्रव्यपेक्षाविति ॥७३॥ - ननु चातिक्रान्ताऽनागतयोर्व्यवहितत्वेऽपि व्यापारः कथं न स्यादित्यारेकामधरयन्तिन च व्यवहितयोस्तयोापारपरिकल्पनं न्याय्यमति-
प्रसक्तेः ॥७॥ तयोरतिक्रान्तानागतयोर्जाग्रहशासंवेदनमरणयोः ॥४॥
अतिप्रसक्तिमेव भावयन्तिपरम्पराव्यवहितानां परेषामपि तत्कल्पनस्य निवारयितु
- मशक्यत्वात् ॥ ७५ ॥ परेषामपि रावणशङ्खचक्रवर्त्यादीनाम्। तत्कल्पनस्य व्यापारकल्पनस्य । अथान्वयव्यतिरेकसमधिगम्यः कार्यकारणभावः । ततो व्यवधानाविशेषेऽपि यस्यैव कार्यमन्वयव्यतिरेकावनुकरोति, तदेव तत्कारणम् । अन्यथाऽव्यवधानाविशेषेऽपि किं न काष्ठकृशानुवत्तत्र स्थित एव शर्कराकणनिकरोऽपिधूमकारणं स्यात् ? ततोनातिप्रसङ्ग इति चेत् । नन्वन्वयस्तद्भावे भावः, स चात्र तावन् नास्त्येव । जाग्रहशासंवेदनमरणयोरभाव एव सर्वदा तत्कार्योत्पादात्। अथ स्वकाले सतोरेव तयोस्तत्कार्योत्पत्तेरन्वयः कथं न स्यादिति चेत् , तीदृशोऽयं रावणादिभिरप्यस्यास्त्येव । सत्यम् , अस्त्येव व्यतिरेकस्तु रिक्त इति चेत्। ननु कोऽयं व्यतिरेको नाम ? तदभावेऽभाव इति चेत्, स तर्हि जाग्रहशासंवेदनादेः कथं स्यात् । तदभाव एव सर्वदा प्रबोधादेर्भावात् । स्वकाले त्वभावस्तस्य नास्येवेति कथं व्यतिरेकः सिद्धिमधिवसेत् ? इति न व्यवहितयोः कार्यकारणभावः संभवति ॥ ७५ ।।