________________
रखाकरावतारिकायुक्तः। कुर्वन्नेव विजातीयं रसलक्षणं कार्य करोतीति प्राक्तनरूपक्षणात्सजातीयोपाथरूपक्षणान्तरानुमानं मन्यमानैः सौगतैरनुमतमेव किञ्चित्कारणं हेतुः,यस्मिन् सामर्थ्याप्रतिबन्धः, कारणान्तरसाकल्यं च निश्चेतुं शक्यते। अथ नैतत् कारणात् कार्यानुमानम् , किन्तु स्वभावानुमानमदः । ईदृशरूपान्तरोत्पादसमर्थमिदं रूपमीदृशरसजनकत्वादित्येवं तत्स्वभाषभूतस्यैव तज्जननसामर्थ्यस्यानुमानादिति चेत् । नन्वेतदपि प्रतिबन्धाभावकारणान्तरसाकल्यनिर्णयमन्तरेण नोपपद्यत एव । तन्निश्चयेतु यदि कारणादेव तस्मात् कार्यमनुमास्यते, तदा किं नाम दुश्चरितं चेतस्वी विचारयेत् ? । एवमस्यत्रच्छाया छत्रादित्यादीन्यव्यभिचारनिश्चयादनुमानान्येवेत्युक्तं भवति ॥७०॥ ___ अथ पूर्वचरोत्तरचरयोः स्वभावकार्यकारणहेत्वनन्तर्भावाद्भेदान्तरवं समर्थयन्तेपूर्वचरोत्तरचरयोर्न स्वभावकार्यकारणभावौ तयोः
__ कालव्यवहितावनुपलम्भात् ॥७१॥ साध्यसाधनयोस्तादात्म्ये सति स्वभावहेतौ, तदुत्पत्तौ तु कार्ये कारणे याऽन्तर्भावो विभाव्येत । न चैते स्तः। तादात्म्यं हि समसमयस्य प्रयत्नानन्तरीयकत्वपरिणामित्वादेरुपपन्नम् । तदुत्पत्तिश्चान्योऽन्यमव्यवहितस्यैव धूमधूमध्वजादेः समधिगता । न तु व्यवहितकालस्य । अतिप्रसक्तेः ॥७१॥ ननु कालव्यवधानेऽपि कार्यकारणभावो भवत्येव, जाग्रद्बोधप्रबोधयोर्मरणारिष्टयोश्च तथा दर्शनादिति प्रतिजानानं प्रज्ञाकरं प्रतिक्षिपन्तिनचातिक्रान्तानागतयोर्जाग्रहशासंवेदनमरणयोःप्रबोधोत्पातौ प्रति कारणलं, व्यवहितत्वेन निर्व्यापारत्वात् ॥७२॥ ___ अयमर्थः । जाग्रहशासंवेदनमतीतम् , सुप्तावस्थोत्तरकालभाविज्ञानं वर्तमानं प्रति; मरणं चानागतं ध्रुवावीक्षणादिकमरिष्टं साम्प्रतिकं प्रति व्यवहितत्वेन व्यापारपराङ्मुखम् , इति कथं तत्तत्र कारणत्वमवलम्बेत?। निर्व्यापारस्यापि तत्कल्पने सर्व सर्वस्य कारणं स्यात् ॥७२॥ .