________________
२४ प्रमाणनयतत्त्वालोकालङ्कारः
न केवलमुपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वेन हेतोद्वैविध्यमित्यपेरर्थः । अविरुद्धो विरुद्धश्चात्र साध्येन सार्द्ध द्रष्टव्यः । ततस्तस्योपलब्धिरिति ।। ६७ ॥
आद्याया भेदानाहु:
तत्राविरुद्धोपलब्धिर्विधिसिद्धौ षोढा ॥ ६८ ॥ तानेव व्याख्यान्तिसाध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वचरोत्तरचर
सहचराणामुपलब्धिः ॥ ६९ ॥ ततो व्याप्याऽविरुद्धोपलब्धिः, कार्याऽविरुद्धोपलब्धिः, कारणाऽविरुद्धोपलब्धिः, पूर्वचराविरुद्धोपलब्धिः, उत्तरचराविरुद्धोपलब्धिः, सहचराविरुद्धोपलब्धिरिति षद् प्रकारा भवन्ति । अत्र हि साध्यं शब्दस्य परिणामित्वादि तस्याऽविरुद्धं व्याप्यादि प्रयत्नानन्तरीयकत्वादि वक्ष्यमाणं तदुपलब्धिरिति । अत्र भिक्षुर्भाषते-विधिसिद्धौ स्वभावकार्ये एव साधने साधीयसी, न कारणम् । तस्यावश्यंतया कार्योत्पादकत्वाभावात् । प्रतिबद्धावस्थस्य मुर्मुरावस्थस्य चाधूमस्यापि धूमध्वजस्य दर्शनात्, ' अप्रतिबद्धसामर्थ्यम् , उग्रसामग्रीकं च तद्गमकमिति चेत् । एवमेतत्, किन्तु नैतादृशमर्वाग्रहशाऽवसातुं शक्यमिति ।। ६९ ॥
तन्निराकर्तु कीर्तयन्तितमस्विन्यामास्वाद्यमानादाम्रादिफलरसादेकसामग्यनुमित्या रूपाद्यनुमितिमभिमन्यमानैरभिमतमेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खलनमपरकारणसा
कल्यं च ॥ ७० ॥ तमस्विन्यामिति रूपाप्रत्यक्षत्वसूचनाय । शक्तरप्रतिस्खलनं सामर्थ्यस्याऽप्रतिबन्धः । अपरकारणसाकल्यं शेषनिःशेषसहकारिसम्पर्कः । रजन्यां रस्समानात्किल रसात् तज्जनकसामग्यनुमानम् , ततोऽपि रूपानुमानं भवति । प्राक्तनो हि रूपक्षणः सजातीयरूपान्तरक्षणलक्षणं कार्य