SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ रत्नाकरावतारिकायुक्तः। .. प्रध्वंसाभावं प्राहु:यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभावः॥१॥ ___ यस्य पदार्थस्योत्पत्तौ सत्यां प्रागुत्पन्नकार्यस्यावश्यं नियमन, अन्यथातिप्रसङ्गाद् विपत्तिर्विघटनम्, सोऽस्य कार्यस्य प्रध्वंसाभावोऽभिधीयते ॥ ६१ ॥ उदाहरन्तियथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकम् ॥ ६२ ॥ इतरेतराभावं वर्णयन्तिखरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः ॥ ६३ ॥ स्वभावान्तरान्न पुनः स्वस्वरूपादेव तस्याभावप्रसक्तेः, स्वरूपव्यावृत्तिः स्वस्वभावव्यवच्छेद इतरेतराभावोऽन्यापोहनामा निगद्यते ॥६॥ _ उदाहरणमाहुःयथा स्तम्भस्वभावात् कुम्भस्वभावव्यावृत्तिः ॥ ६४ ॥ • अत्यन्ताभावमुपदिशन्तिकालत्रयाऽपेक्षिणी हि तादात्म्यपरिणामनिवृत्तिरत्यन्ता भावः ॥ ६५ ॥ अतीताऽनागतवर्तमानरूपकालत्रयेऽपि याऽसौ तादात्म्यपरिणामनिवृत्तिरेकत्वपरिणतिव्यावृत्तिः, सोऽत्यन्ताभावोऽभिधीयते ॥ ६५ ॥ निदर्शयन्ति यथा चेतनाऽचेतनयोः ॥ ६६ ॥ · न खलु चेतनमात्मतत्त्वमचेतनपुद्गलात्मकतामचकलत् , कलयति, कलयिष्यति वा । तच्चैतन्यविरोधात् । नाप्यचेतनं पुद्गलतत्त्वं चेतनस्वरूपताम् । अचेतनत्वविरोधात् ।। ६६ ॥ अथोपलब्धि प्रकारतो दर्शयन्तिउपलब्धेरपि दैविध्यमविरुद्धोपलब्धिविरुद्धोपलब्धिश्च॥६॥
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy