________________
२२ प्रमाणनयतचालोकालङ्कारःविधिमभिदधति
विधिः सदंशः ॥५६॥ सदसदंशात्मनो वस्तुनो योऽयं सदंशो भावरूपः, स विधिरित्यभिधीयते ॥५६॥ . प्रतिषेधं प्रकटयन्ति
प्रतिषेधोऽसदंशः ॥५७॥ तादृशस्यैव वस्तुनो योऽयमसदंशोऽभावस्वभावः, स प्रतिषेध इति गीयते ॥५५॥
अस्यैव प्रकारानाहु:स चतुर्दा प्रागभावः प्रध्वंसाभाव इतरेतराभावो
ऽत्यन्ताभावश्च ॥५८॥ प्राक् पूर्व वस्तूत्पत्तेरभावः, प्रध्वंसश्चासावभावश्च, इतरस्येतरस्मिन्नभावः, अत्यन्तं सर्वदाऽभावः । विधिप्रकारास्तु प्राक्तनैर्नोचिरे । अतः सूत्रकृद्भिरपि नाभिदधिरे ॥ ५८ ॥
तत्र प्रागभावमाविर्भावयन्तियन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभावः॥१९॥ ___ यस्य पदार्थस्य निवृत्तावेव सत्याम्, न पुनरनिवृत्तावपि; अतिव्याप्तिप्रसक्तेः । अन्धकारस्यापि निवृत्तौ कचिज्ज्ञानोत्पत्तिदर्शनादन्धकारस्यापि ज्ञानप्रागभावत्वप्रसङ्गात् । न चैवमपि रूपज्ञानं तन्निवृत्तावेवोत्पद्यत इति तत्प्रति तस्य तत्त्वप्रसक्तिरिति वाच्यम् । अतीन्द्रियदर्शिनि नक्तंचरादौ च तद्भावेऽपि तद्भावात् । स इति पदार्थः, अस्येति कार्यस्य ।।५९।।
अत्रोदाहरन्तियथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य
मृत्पिण्डः ॥ ६ ॥