SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ रनाकरावतारिकायुक्तः। . २९ आद्यं प्रकारमाहुःयत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ता . प्रकाश्यते, स साधर्म्यदृष्टान्तः ॥४५॥ यथा यत्र यत्र धूमस्तत्र तत्र वह्निर्यथा महानसः ॥४६॥ द्वितीयभेदं दर्शयन्तियत्र तु साध्याभावे साधनस्यावश्यमभावः प्रदर्यते, स वैधर्म्यदृष्टान्तः ॥४७॥ यथाऽग्न्यभावे न भवत्येव धूमो, यथा जलाशये ॥४॥ उपनयं वर्णयन्तिहेतोः साध्यधर्मिण्युपसंहरणमुपनयः ॥४९॥ यथा धूमश्चात्र प्रदेशे ॥५०॥ निगमनं लक्षयन्ति साध्यधर्मस्य पुनर्निगमनम् ॥५१॥ साध्यधर्मिण्युपसंहरणमिति योगः ॥५१॥ यथा तस्मादग्निरत्र ॥५२॥ पक्षवचनादीनां पूर्वाचार्यप्रवर्तितां संज्ञां कथयन्तिएते पक्षप्रयोगादयः पञ्चाप्यवयवसंज्ञया कीर्त्यन्ते ॥५३॥ अपिशब्दात् तच्छुद्धीनामप्यवयवसंज्ञा विज्ञेया ॥५३॥ प्रागुक्तमेव हेतुं प्रकारतो दर्शयन्तिउक्तलक्षणो हेतुर्दिप्रकारः, उपलब्ध्यनुपलब्धिभ्यां ... भिद्यमानत्वात् ॥५४॥ अर्थतयोः साध्यमाहुःउपलब्धिर्विधिनिषेधयोः सिद्धिनिबन्धनमनुपलब्धिश्व॥५५॥ यथा चैतदेवं तथा वक्ष्यते ॥५५॥
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy