________________
२०. प्रमाणनयतत्त्वालोकालङ्कारः
न केवलं दृष्टान्तस्येत्यपेरर्थः ॥ ४०॥ एतदेवाहुःसमर्थनमेव परं परप्रतिपत्त्यङ्गमास्तां तदन्तरेण
दृष्टान्तादिप्रयोगेऽपि तदसंभवात् ॥४१॥ प्रयुज्यापि हि दृष्टान्तादिकम् , समर्थन हेतोरवश्यं वक्तव्यम् । इतरथा साध्यसिद्ध्यसंभवादिति तदेवाभिधीयताम् , किं दृष्टान्तादिवचनेन ? इति ॥४१॥ व्युत्पन्नानाश्रित्य परार्थानुमानमभिधाय मन्दमतीनुद्दिश्य तत् प्रपञ्चयन्तिमन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगम
नान्यपि प्रयोज्यानि ॥ ४२ ॥ अपिशब्दात्पक्षहेतू , पक्षादिशुद्धयश्च पञ्च ग्राह्याः । तत उत्कृष्टं दशाऽवयवं परार्थानुमानमित्युक्तं भवति । मध्यमं तु नवावयवादारभ्य यावत् ब्यवयवम् । जघन्यं पुनः साधनमात्रोपन्यासस्वरूपम् । प्रतिपाद्यानां मन्दव्युत्पन्नातिव्युत्पन्नत्वात् । तदुक्तम्
"अन्यथाऽनुपपत्त्येकलक्षणं लिङ्गमिष्यते ।
प्रयोगपरिपाटी तु प्रतिपाद्यानुसारतः" ॥१॥ इति ॥४२॥ अथ दृष्टान्तं प्रकटयन्ति
प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः ॥ ४३ ॥ · प्रतिबन्धो व्याप्तिरविनाभावः । तत्स्मरणस्थानं महानसादि दृष्टान्तो ज्ञेयः ॥ ४३ ॥
भेदतोऽमून दर्शयन्ति___स द्वेधा, साधर्म्यतो वैधयंतश्च ॥ ४४ ॥
समानो धर्मो यस्याऽसौ सधर्मा । विसदृशो धर्मो यस्याऽसौ विधमा, तयोर्भावः साधर्म्य वैधर्म्य च, ततः ॥ ४४ ॥