________________
रत्नाकरावतारिकायुक्तः।
निवारः समवतारः ॥ ३५ ॥ प्रतिनियतव्यक्तौ हि व्याप्तिनिश्चयः कर्तुमशक्यः। ततो व्यक्त्यन्तरेषु व्याप्त्यर्थ पुनर्दृष्टान्तान्तरं मृग्यम् । तस्यापि व्यक्तिरूपत्वेनापरदृष्टान्तापेक्षायामनवस्था स्यात् ॥ ३५ ॥
तृतीयविकल्पं पराकुर्वन्तिनाप्यविनाभावस्मृतये, प्रतिपन्न प्रतिबन्धस्य व्युत्पन्न
मतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धेः ॥३६॥ दृष्टान्तवचनं प्रभवतीति योगः ॥३६।। अमुमेवार्थ समर्थयन्तेअन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च
बहिर्व्याप्तेरुद्भावनं व्यर्थम् ॥३७॥ अयमर्थः-- "अन्तर्व्याप्तेः साध्यसंसिद्धिशक्तौ बाह्यव्याप्तेर्वर्णनं वन्ध्यमेव ।
अन्तर्व्याप्तेः साध्यसंसिद्ध्यशक्तौ बाह्यव्याप्तेर्वर्णनं वन्ध्यमेव" ॥१॥ . मत्पुत्रोऽयं बहिर्वक्ति, एवंरूपस्वरान्यथानुपपत्तेः, इत्यत्र बहिर्व्याप्त्य.भावेऽपि गमकत्वस्य; स श्यामः तत्पुत्रत्वात् , इतरतत्पुत्रवत् ; इत्यत्र तु तद्भावेऽप्यगमकत्वस्योपलब्धेरिति ॥ ३७ ।।
अर्थतयोः स्वरूपमाहुःपक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्ता
तिरन्यत्र तु बहिर्व्याप्तिः ॥३८॥ यथाऽनेकान्तात्मकं वस्तु सत्त्वस्य तथैवोपपत्तेरिति, . अग्निमानयं देशो धूमवत्त्वात् य एवं स एवं यथा
पाकस्थानमिति च ॥३९॥ उपनयनिगमनयोरपि परप्रतिपत्तौ सामर्थ्य कदर्थयन्तेनोपनयनिगमनयोरपि परप्रतिपत्तौ सामर्थ्य पक्षहे
तुप्रयोगादेव तस्याः सद्भावात् ॥४०॥