SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कार:प्रयोगतोऽपि प्रकटयन्तियथा कृशानुमानयं पाकप्रदेशः सत्येव कृशानुमत्त्वे धूमवत्त्वस्योपपत्तेः, असत्यनुपपत्तेर्वा ॥३१॥ एतदपि तथैव ॥३१॥ अमुयोः प्रयोगौ नियमयन्ति• अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीय प्रयोगस्यैकत्रानुपयोगः ॥३२॥ अयमर्थः-प्रयोगयुग्मेऽपि वाक्यविन्यास एव विशिष्यते नार्थः । स चान्यतरप्रयोगेणैव प्रकटीबभूवेति किमपरप्रयोगेण ? इति ॥३२॥ ___ अथ यदुक्तं "न दृष्टान्तादिवचनं परप्रतिपत्तेरङ्गम्” इति। तत्र दृष्टान्तवचनं तावन्निराचिकीर्षवस्तद्धि किं परप्रतिपत्त्यर्थ परैरङ्गीक्रियते ?, किंवा हेतोरन्यथानुपपत्तिनिर्णीतये?, यद्वाऽविनाभावस्मृतये ?; इति विकल्पेषु प्रथमं विकल्पं तावहूषयन्तिन दृष्टान्तवचनं परप्रतिपत्तये प्रभवति, तस्यां पक्षहेतु वचनयोरेव व्यापारोपलब्धेः ॥३३॥ प्रतिपन्नाऽविस्मृतसंबन्धस्य हि प्रमातुरग्निमानयं देशो धूमवत्त्वान्यथानुपपत्तेरित्येतावतैव भवत्येव साध्यप्रतीतिरिति ॥३३॥ द्वितीयं विकल्पं परास्यन्तिनच हेतोरन्यथानुपपत्तिनिर्णीतये, यथोक्ततर्कप्रमा णादेव तदुपपत्तेः ॥३४॥ दृष्टान्तवचनं प्रभवतीति योगः ॥३४॥ अत्रैवोपपत्त्यन्तरमुपवर्णयन्तिनियतैकाविशेषस्वभावे च दृष्टान्ते साकल्येन व्याप्तेर योगतो विप्रतिपत्तौ तदन्तरापेक्षायामनवस्थिते?
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy