________________
रत्नाकरावतारिकायुक्तः। मनुमानमुच्यते, तथा प्रत्यक्षप्रतीतोऽपि तथैव परार्थ प्रत्यक्षमित्युच्यताम् । परप्रत्यायनस्योभयत्राप्यविशिष्टत्वादिति ॥ २६ ॥
एतदुल्लिखन्तियथा पश्य पुरः स्फुरत्किरणमणिखण्डमण्डिताभरणभा
रिणी जिनपतिप्रतिमाम् ॥ २७ ॥ व्यक्तमदः । एवं स्मरणादेरपि यथासम्भवं पारार्थ्य प्रतिपत्तव्यम् । तथा च वदन्ति"स्मरत्यदो दाशरथिर्भवन् भवानमुं वनान्ताद्वनिताऽपहारिणम् । पयोधिमाबद्धचलजलाविलं विलय लङ्कां निकषा हनिष्यति" ॥१॥ _ "परिभावय स एवाऽयं मुनिः पूर्व नमस्कृतः” इत्यादि ॥२७॥
प्रासङ्गिकमभिधाय पक्षहेतुवचनात्मकं परार्थमनुमानमिति प्रागुक्तं समर्थयन्ते.. पक्षहेतुवचनलक्षणमवयवद्वयमेव परप्रतिपत्तेरझं न
दृष्टान्तादिवचनम् ॥ २८ ॥ - . आदिशब्देनोपनयनिगमनादिग्रहः। एवं च यद् व्याप्त्युपेतं पक्षधर्मतोपसंहाररूपं सांगतैः, पक्षहेतुदृष्टान्तस्वरूपं भाट्टप्राभाकरकापिलैः, पक्षहेतुदृष्टान्तोपनयनिगमनलक्षणं नैयायिकवैशेषिकाभ्यामनुमानमान्नायि; तदपास्तम् । व्युत्पन्नमतीन् प्रति पक्षहेतुवचसोरेवोपयोगात् ॥२८॥
पक्षप्रयोगं प्रतिष्ठाप्य हेतुप्रयोगप्रकारं दर्शयन्तिहेतुप्रयोगस्तथोपपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारः ॥२९॥
तथैव साध्यसंभवप्रकारेणैवोपपत्तिस्तथोपपत्तिः । अन्यथा साध्याभावप्रकारेणानुपपत्तिरेवान्यथानुपपत्तिः ॥२९॥
अमू एव स्वरूपतो निरूपयन्तिसत्येव साध्ये हेतोरुपपत्तिस्तथोपपत्तिः, असति साध्ये
हेतोरनुपपत्तिरेवान्यथानुपपत्तिः ॥३०॥ निगदव्याख्यानम् ॥३०॥