________________
प्रमाणनयतत्त्वालोकालङ्कारःसंप्रति व्याप्तिपुरस्सरं पक्षधर्मतोपसंहारं तत्पूर्विका वा व्याप्तिमाचक्षाणान् भिक्षून पक्षप्रयोगमङ्गीकारयितुमाहु:
साध्यस्य प्रतिनियतधर्मिसंबन्धिताप्रसिद्धये हेतोरुपसंहारवचनवत् पक्षप्रयोगोऽप्यवश्यमाश्रयितव्यः ॥२४॥ • यथा यत्र धूमस्तत्र धूमध्वज इति हेतोः सामान्येनाधारप्रतिपत्तावपि पर्वतादिविशिष्टधर्मिधर्मताधिगतये धूमश्चात्रेत्येवंरूपमुपसंहारवचनमवश्यमाश्रीयते सौगतैः । तथा साध्यधर्मस्य नियतधर्मिधर्मतासिद्धये पक्षप्रयोगोऽप्यवश्यमाश्रयितव्य इति ॥२४॥
अमुमेवार्थ सोपालम्भं समर्थयन्तेत्रिविधं साधनमभिधायैव तत्समर्थनं विदधानः कः । खलु न पक्षप्रयोगमङ्गीकुरुते ॥२५॥
त्रिविधं कार्यस्वभावानुपलम्भभेदात् । तस्य साधनस्य समर्थनमसिद्धतादिव्युदासेन स्वसाध्यसाधनसामोपदर्शनम् । नहि असमर्थितो हेतुः साध्यसिद्धयङ्गम् । अतिप्रसङ्गात् । ततः पक्षप्रयोगमनङ्गीकुर्वता तत्समर्थनरूपं हेतुमनभिधायैव तत्समर्थनं विधेयम् । "हन्त हेतुरिह जल्प्यते न चेत्, अस्तु कुत्र स समर्थनाविधिः । तहि पक्ष इह जल्प्यते न चेत्, अस्तु कुत्र स समर्थनाविधिः॥१॥ प्राप्यते ननु विवादतः स्फुटं पक्ष एष किमतस्तदाख्यया । तर्हि हेतुरपि लभ्यते ततोऽनुक्त एव तदसौ समर्थ्यताम् ॥२॥ मन्दमतिप्रतिपत्तिनिमित्तं सौगत ! हेतुमथाभिदधीथाः । मन्दमतिप्रतिपत्तिनिमित्तं तर्हि न किं परिजल्पसि पक्षम् ॥३॥२५॥ अथ प्रत्यक्षस्यापि पारार्थ्य समर्थयन्तेप्रत्यक्षपरिच्छिन्नार्थाभिधायि वचनं परार्थ प्रत्यक्षं,
परप्रत्यक्षहेतुत्वात् ॥ २६॥ यथाऽनुमानप्रतीतोऽर्थः परस्मै प्रतिपाद्यमानो वचनरूपापन्नः परार्थ