________________
रत्नाकरावतारिकायुक्तः । १५ विकल्पं विहाय विश्ववित् कुतोऽपि प्रासिध्यत् । द्वितीये प्रमाणेन प्रत्यक्षादिना,क्षितिधरकन्धरायास्तदानीं संवेदनात्। तृतीये तूभाभ्याम्। नहि श्रूयमाणादन्येषां देशकालस्वभावव्यवहितध्वनीनां ग्राहकं किञ्चित् तदानीं प्रमाणं प्रवर्तत इति विकल्पादेव तेषां सिद्धिः । ननु नास्ति विकल्पसिद्धो धर्मी, तन्मात्रेण सिद्धेः कस्याप्यसंभवात् । अन्यथाऽहंप्रथामिकया प्रमाणपर्येषणप्रयासः परीक्षकाणामकक्षीकरणीय एव भवेत् । प्रमाणमूलतायां पुनरेतस्य प्रमाणसिद्धप्रकारेणैव गतार्थत्वादिति। सोऽयं स्वयं विकल्पसिद्धं धर्मिणमाचक्षाणः परोक्तं प्रत्याचक्षाणश्च नियतमुत्स्वप्नायते । यदि हि विकल्पसिद्धो धर्मी नास्त्येव, तदा 'नास्ति विकल्पसिद्धो धर्मी, तन्मात्रेण सिद्धेः कस्याप्यसंभवात्' इत्यत्र कथं तमेवावोचथाः ? । परोपगमादयमस्त्येवेति चेत् । "यदि परोपगमः प्रमितिस्तदा कथमयं प्रतिषेधविधिर्भवेत् । अथ तथा न तदापि बतोच्यतां कथमयं प्रतिषेधविधिर्भवेत्॥१॥
तस्मात् प्रमाणात् पृथग्भूतादपि विकल्पादस्ति काचित्तथाविधा सिद्धिः। यामनाश्रयता तार्किकेण न क्षेमेणासितुं शक्यत इति ॥२२॥
अधुना परार्थानुमानं प्ररूपयन्तिपक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥२३॥
पक्षहेतुवचनात्मकत्वं च परार्थानुमानस्य व्युत्पन्नमतिप्रतिपाद्यापेक्षया ऽत्रोक्तम् । अतिव्युत्पन्नमतिप्रतिपाद्याऽपेक्षया तु धूमोऽत्र दृश्यत इत्यादि हेतुवचनमात्रात्मकमपि तद्भवति । बाहुल्येन तत्प्रयोगाभावात्तु नैतत्साक्षासूत्रे सूत्रितम् , उपलक्षितं तु द्रष्टव्यम् । मन्दमतिप्रतिपाद्यापेक्षया तु दृष्टान्तादिवचनात्मकमपि तद्भवति । यद्वक्ष्यन्ति “ मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि” इति । पक्षहेतुवचनस्य च जडरूपतया मुख्यतः प्रामाण्याऽयोगे सति उपचारादित्युक्तम् । कारणे कार्योपचारादित्यर्थः । प्रतिपाद्यगतं हि यज्ज्ञानं तस्य कारणं पक्षादिवचनम् । कार्ये कारणोपचाराद्वा । प्रतिपादकगतं हि यत्स्वार्थानुमानं तस्य कार्य तद्वचनमिति ॥ २३॥