________________
प्रमाणनयतत्त्वालोकालङ्कार:क्तिः पर्वते पावकं गमयेत् ? धूमत्वसामान्यमेव गमकमिति चेत्, वाचकमपि सामान्यमेवास्तु । अथ शब्दत्वम् , गोशब्दत्वम् , क्रमाभिव्यज्यमानगत्वौत्वादिकं वा तद्भवेत् । आद्यपक्षे प्रतिनियतार्थप्रतिपत्तिर्न स्यात्, सर्वत्र शब्दत्वस्याविशेषात् । गोशब्दत्वं तु नास्त्येव, गोशब्दव्यक्रेकस्याः कस्याश्चित्तदाधारभूताया असंभवात्, क्रमेण व्यज्यमानं हि वर्णद्वयमेवैतत् । क्रमाभिव्यज्यमानेत्यादिपक्षोऽप्यसंभवी, गत्वादिसामान्यस्याविद्यमानत्वात्, सर्वत्र गकारादेरेकत्वात् । अत्रोच्यते । अस्तु तार्तीयीकः कल्पः; नच गकारादेरैक्यम् , गर्गभर्गवर्गस्वर्गादौ भूयांसोऽमी गकारा इति तद्भेदोपलम्भात् । व्यञ्जकभेदादयमिति चेत्, अकाराद्यशेषशेषवर्णेष्वप्येषोऽस्त्वित्येक एव वर्णः स्यात् । अथ यथा अयमपि गकारः, अयमपि गकारः, इत्येकाकारा प्रतीतिः, तथा नाकाराद्यशेषवर्णेष्वपीति चेत् । नैवम् । अयमपि वर्णः, अयमपि वर्णः, इत्येकप्रत्यवमर्शोत्पत्तेः। सामान्यनिमित्तक एवायमिति चेत् , तर्हि गकारादावपि तथास्तु । अथाकारेकारादौ विशेषोऽनुभूयते, न तु गर्गादिगकारेषु, तेषां तुल्यस्थानास्यप्रयत्नादित्वादिति चेत् , एवं तार्ह
“सहर्ष हेषन्ते हरिहरिति हम्मीरहरयः" इत्यादिहकारात् कण्ठ्याद्वह्निजिह्मादिहकारस्य
"ह उरस्यो वह्निजिह्मादौ वर्गपञ्चमसंयुतः" इति वचनादुरस्यत्वेन स्थानभेदप्रतीतेः, ततो भिन्नोऽयं वर्णो भवेत्। नच गकारे नास्ति विशेषावभासः, तीवोऽयं मन्दोऽयं गकार इति तीव्रतादिविशेषस्फुरणात् । व्यञ्जकगतास्तीव्रतादयः तत्र स्फुरन्तीति चेत् , कृतोत्तरमेतत् । अकारेकारादावप्यनुभूयमानः स स विशेषः तद्गत एवाऽस्तु, तथाचैक एव वर्णः किं न भवेत् ? । मा भूद्वा विशेषावभासो गकारेषु भेदावभासस्तु विद्यत एव, बहवोऽमी गकारा इति प्रतीतेः । भवति च विशेषावभासं विनापि भेदस्फूर्तिः, सर्षपराशौ गुरुलाघवादिविशेषावभासं विनापि तद्भेदप्रतिभासवत् । इति सिद्धो गकारभेदः । तथा च तदादिवर्णवर्तिसामान्यानामेव वाचकत्वमस्तु । तत्त्वतस्तु गोशब्दत्वमेव सदृशपरिणामात्मकं वाचकम् । क्रमाभिव्यज्यमानं वर्णद्व