________________
रत्नाकरावतारिकायुक्तः ।
"
यमेवैतत्, नैका गोशब्दव्यक्तिरिति च न वाच्यम् । नित्यत्वाऽप्रसिद्धावद्याप्यस्योत्तरस्य कूर्परकोटिसंटङ्कितगुडायमानत्वात् । तस्मात् क्रमोत्पदिष्णुतत्तद्गकारादिपर्यायोपहितभाषाद्रव्यात्मको गोशब्द एव सदृश - परिणामात्मा वाचकोऽस्तु । तथा च क्षीणाऽर्थापत्तिः । अस्त्वनित्योध्वनिः, किन्तु नायं पौद्गलिकः संगच्छत इति यौगाः सङ्गिरमाणाः सप्रणयप्रणयिनीनामेव गौरवाः । यतः कोऽत्र हेतुः; स्पर्शशून्याश्रयत्वम्, अतिनिबिडप्रदेशे प्रवेशनिर्गमयोरप्रतिघातः, पूर्व पञ्चाञ्चाऽवयवानुपलब्धिः, सूक्ष्ममूर्त्तद्रव्यान्तराऽप्रेरकत्वं, गगनगुणत्वं वा । नाद्यः पक्षः । यतः शब्दपर्यायस्याश्रये भाषा वर्गणारूपे स्पर्शाऽभावो न तावदनुपलधिमात्रात् प्रसिद्ध्यति, तस्य सव्यभिचारत्वात् । योग्यानुपलब्धिस्त्वसिद्धा, तत्र स्पर्शस्यानुद्भूतत्वेनोपलब्धिलक्षणप्राप्तत्वाऽभावात्, उपलभ्यमानगन्धाधारद्रव्यवत् । अथ घनसारगन्धसारादौ गन्धस्य स्पर्शा - व्यभिचारनिश्चयादत्रापि तन्निर्णयेऽप्यनुपलम्भादनुद्भूतत्वं युक्तम्, नेतरत्र, तन्निर्णायकाभावात् इति चेत् मा भूत्तावत्तन्निर्णायक किञ्चित् । किन्तु पुद्गलानामुद्भूतानुद्भूतस्पर्शानामुपलब्धेः शब्देऽपि पौगलिकत्वेन परैः प्रणिगद्यमाने, बाधकाभावे च सति सन्देह एव स्यात्, नत्वभावनिश्चयः, तथा च सन्दिग्धासिद्धो हेतुः । नच नास्ति तन्निर्ण - यकम् । तथाहि शब्दाश्रयः स्पर्शवान्, अनुवातप्रतिवातयोर्विप्रकृष्टनिकटशरीरिणोपलभ्यमानाऽनुपलभ्यमानेन्द्रियार्थत्वात् तथाविधगन्धाधारद्रव्यवत्, इति । द्वितीयकल्पेऽपि गन्धद्रव्येण व्यभिचारः वर्त्तमानजात्यकस्तूरिकाकर्पूरकश्मीरजादिगन्धद्रव्यं हि पिहितकपाटसंपुटाऽपवरकस्यान्तविंशति, बहिश्च निस्सरति, नचाऽपौद्गलिकम् । अथ तत्र सूक्ष्मरन्ध्रसंभवेनातिनिबिडत्वाभावात् तत्प्रवेशनिष्काशौ; अत एव तदल्पीय - स्ता, नत्वपावृतद्वारदशायामिव तदेकार्णवत्वम्, सर्वथा नीरन्ध्रे तु प्रदेशे नैतौ सम्भवत इति चेत्, एवं तार्ह शब्देऽपि सर्वस्य तुल्ययोगक्षेमत्वादसिद्धता हेतोरस्तु । पूर्वं पश्चाच्चावयवानुपलब्धिः, सौदामिनीदामोल्कादिभिरनैकान्तिकी । सूक्ष्ममूर्त्तद्रव्यान्तराप्रेरकत्वमपि गन्धद्रव्यविशेषसूक्ष्मरजोधूमादिभिर्व्यभिचारी । नहि गन्धद्रव्यादिकमपि नसि निविशमानं
४७