________________
प्रमाणनयतत्त्वालोकालङ्कारःतद्विवरद्वारदेशोभिन्नश्मश्रुप्रेरकं प्रेक्ष्यते । गगनगुणत्वं त्वसिद्धम् । तथाहि । न गगनगुणः शब्दः अस्मदादिप्रत्यक्षत्वात् , रूपादिवदिति । पौद्गलिकत्वसिद्धिः पुनरस्य, शब्दः पौद्गलिकः, इन्द्रियार्थत्वात् , रूपादिवदेवेति ॥ ९॥
पदवाक्ये व्याकुर्वन्ति- वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदम् ,
पदानां तु वाक्यम् ॥ १० ॥ . वौँ च वर्णाश्चेत्येकशेषात् ; ब्रह्मसंबोधने क इत्यादौ द्वयोः, गौरि त्यादौ बहूनां च वर्णानाम् । अन्योन्यापेक्षाणाम् , पदार्थे प्रतिपत्तौ कर्त्तव्यायां परस्परं सहकारितया स्थितानाम् । निरपेक्षा, पदान्तरवत्तिवर्णनिर्वतितोपकारपराङ्मुखी, संहतिर्मेलकः। पदमभिधीयते, पद्यते गम्यते वयोग्योऽर्थोऽनेनेति व्युत्पत्तेः । प्रायिकत्वाच्च वर्णद्वयादेरेव पदत्वं लक्षितम् । यावता विष्णुवाचकैकाक्षराकारादिकमपि पदान्तरवर्तिवर्णनिर्वतितोपकारपराङ्मुखत्वरूपेण निरपेक्षत्वलक्षणेन पदत्वेन लक्षितं द्रष्टव्यम् । पदानां पुनः स्वोचितवाक्यार्थप्रत्यायने विधेयेऽन्योन्यनिर्मि- . तोपकारमनुसरतां वाक्यान्तरस्थपदापेक्षारहिता संहतिर्वाक्यमभिधीयते, उच्यते स्वसमुचितोऽर्थोऽनेनेति व्युत्पत्तेः ॥ १० ॥ - अथ संकेतमात्रेणैव शब्दोऽर्थ प्रतिपादयति; नतु स्वाभाविकसंबन्धवशादिति गदतो नैयायिकान् , समयादपि नाऽयं वस्तु वदतीति वदतः सौगतांश्च पराकुर्वन्तिखाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः॥११॥ __ स्वाभाविकम् , सहजम् । सामर्थ्यम् , शब्दस्याऽर्थप्रतिपादनशक्तिः योग्यतानाम्नी। समयश्च संकेतः। ताभ्यामर्थप्रतिपत्तिकारणं शब्द इति। तत्र नैयायिकान् प्रत्येवं विधेयानुवाद्यभावः, योऽयमर्थबोधनिबन्धनं शब्दोऽभ्युपगतोऽस्ति, स स्वाभाविकसामर्थ्यसमयाभ्यां द्वाभ्यामपि, न पुनः समयादेव केवलात् । समयो हि पुरुषायत्तवृत्तिः, नच पुरुषेच्छया वस्तु