________________
४९
रवाकरावतारिकायुक्तः। नियमो युज्यते । अन्यथा सदिच्छाया अव्याहतप्रसरत्वादर्थोऽपि वाचकः, शब्दोऽपि वाच्यः स्यात् । अथ गत्वौत्वादिसामान्यसंबन्धो यस्य भवति, स वाचकत्वे योग्यः, इतरस्तु वाच्यत्वे, यथा द्रव्यत्वाविशेषेऽप्यग्नित्वादिसामान्यविशेषवत एव दाहजनकत्वम् , न जलत्वादिसामान्यविशेषवत इति चेत् । तद्युक्तम् । अतीन्द्रियां शक्तिं विनाऽमित्वादेरपिकार्यकारणभावनियामकत्वानुपपत्तेः। अमित्वं हि दाहवद्विजातीयकारणजन्यकार्येष्वपि तुल्यरूपम्। न हि दाहं प्रत्येवाग्नेरमित्वम् , यथा पुत्रापेक्षं पितुः पितृत्वम् । ततश्चाग्निर्दाहवत्पिपासापनोदमपि विध्यादिति नातीन्द्रियां शक्तिमन्तरेणाग्नित्वादीनां कार्यकारणभावव्यवस्थाहेतुत्वम् , तद्वदेव च गत्वौत्वादिसामान्यानामपि न वाच्यवाचकभावनियमहेतुत्वमिति नियामिका शक्तिः स्वीकर्त्तव्यैव । अथ किमनेनातीन्द्रियशक्तिकल्पनालेशेन?। करतलानलसंयोगादिसहकारिकारणनिकरपरिकरितं कृपीटयोनिवरूपं हि स्फोटघटनपाटवं प्रकटयिष्यति, किमवशिष्टं यदनया करिष्यते। तथा च जयन्तः
"स्वरूपादुद्भवत्कार्य सहकार्युपबृंहितात् ।।
नहि कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम्" ॥१॥ यत्तूक्तम्- अग्निर्दाहवत्पिपासापनोदमपि विध्यादिति । तन्न सत् । न हि वयमद्य कश्चिदभिनवं भावानां कार्यकारणभावमुत्थापयितुं शक्नुमः किंतु यथाप्रवृत्तमनुसरन्तो व्यवहरामः । नास्मदिच्छया आपः शीतं शमयन्ति, कृशानुर्वा पिपासाम् , किन्तु तत्र दाहादावन्वयव्यतिरेकाभ्यां वा, वृद्धव्यवहाराद्वा ज्वलनादेरेव कारणत्वमवगच्छाम इति तदेव तदर्थिन उपादद्महे, न जलादि । तदेतदतथ्यम्।यतो यथाभूतादेव विभावसोर्दाहोत्पत्तिः प्रतीयते, तथाभूतादेवं मणिमन्त्रयन्त्रतन्त्रौषधादिसन्निधाने सति न प्रतीयते। यदि हि दृष्टमेव रूपं स्फुटं स्फोटं घटयेत् , तदा तदानीं तस्य समस्तस्य सद्भावात्तदनुत्पादो न स्यात्। अस्ति चासौ, ततो दृष्टरूपस्य व्याभचारं प्रपञ्चयन्नतीन्द्रियायाः शक्तेः सत्त्वं समर्पयति । तथा च
"स्वरूपात्काप्यनुद्यत्तत् सहकार्युपबृंहितात् । किन्न कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम् ?” ॥१॥