________________
प्रमाणनयतत्वालोकालङ्कार:
यत्तूक्तम्-दाहादावन्वयव्यतिरेकाभ्यां वा, वृद्धव्यवहाराद्वा ज्वलनादेरेव कारणत्वमवगच्छाम इति । तदुक्तिमात्रमेव । यत एव हि दाहदहनयोः कार्यकारणभावनियमःप्रसिद्धिपद्धतिप्रतिबद्ध एव, तत एव प्रसङ्गः प्रवर्त्यते। यदि कृशानुः स्वरूपमात्रादेव दाहमुत्पादयेत् , तर्हि तदविशेपादुदन्याऽपनोदमपि विध्यादिति । अथ न मणिमन्त्रादिप्रतिबन्धकनैकट्ये स्फोटानुत्पत्तिरदृष्टं रूपमाक्षिपति । यथा ह्यन्वयव्यतिरेकाभ्यामवधृतसामो दहनो दाहहेतुः, तथा प्रतिबन्धकाभावोऽपि । स च प्रतिबन्धकयोगे विनिवृत्त इति सामग्रीवैगुण्यादेव दाहस्यानुत्पत्तिः, न तु शक्तिवैकल्यादिति चेत् । तद्युक्तम् । यतः प्रतिबन्धकाभावो भावादेकान्तव्यतिरिक्तः कथं किञ्चित्कार्य कुर्यात् ? कूर्मरोमराजीवत् । ननु नित्यानां कर्मणामकरणात्प्रागभावस्वभावात् प्रत्यवाय उत्पद्यते, अन्यथा नित्याकरणे प्रायश्चित्तानुष्ठानं न स्याद्, वैयर्थ्यात् । तन्न तथ्यम् । नित्याकरणस्वभावात् क्रियान्तरकरणादेव प्रत्यवायोत्पत्तेरभ्युपगमात् , त्वन्मतस्य तस्य तद्धेतुत्वासिद्धेः । यदप्युच्यते"सुखदुःखसमुत्पत्तिरमावे शत्रुमित्रयोः ।
कण्टकाभावमालक्ष्न्य पादः पथि निधीयते"॥१॥ - तत्राप्यमित्रमित्रकण्टकाभावज्ञानानामेव सुखदुःखाद्भिनिधानकार्यकारित्वम् , नत्वभावानाम् । तज्ज्ञानमप्यमित्रमित्रकण्टकविविक्तप्रतियोगिवस्त्वन्तरसम्पादितमेव, नतु त्वभिमताभावकृतम् । अथ भाववदभावोऽपि भावजननसमर्थोऽस्तु; को दोषः। न हि निःशेषसामर्थ्यरहितत्वमभावलक्षणम् ; अपितुनास्तीतिज्ञानगम्यत्वम् । सत्प्रत्ययगम्यो हि भाव उच्यते, असत्प्रत्ययगम्यस्त्वभाव इति चेत्। तदयुक्तम् । त्वदभ्युपगताभावस्य भावात्सर्वथा पार्थक्येन स्थितस्य भावोत्पादकत्वविरोधात् । तथाहिविवादास्पदीभूतोऽभावो भावोत्पादको न भवति, भावादेकान्तव्यतिरिक्तत्वात् , यदेवं तदेवं यथा तुरङ्गशृङ्गम्, तथा चायं तस्मात् तथा।प्रागभावप्रध्वंसाभावपरस्पराभावस्वभावो ह्यभावो वस्तुनो व्यतिरिक्तमूर्तिर्भावोत्पादकः परैरिष्टः,सोऽत्र विवादपदशब्दितः । अन्यथा जैनस्य भावाविष्व