________________
रत्नाकरापतारिकायुक्तः। ग्भूताभावीवोत्पादकत्वेनाङ्गीकृतैर्बाधा स्यात् । यौगस्य चात्यन्ताभावेन भावानुत्पादकेन सिद्धसाध्यता भवेत् । नन्वयं धर्मित्वेनोपात्तोऽभावो भवद्भिः प्रतिपन्नो नवा । यदि प्रतिपन्नः; किं प्रत्यक्षाद्, अनुमानाद्, विकल्पाद्वा; उपमानादेरत्रानुचितत्वात् । यदि प्रत्यक्षात् तदा कथमभावस्य भावोत्पादनापवादः सूपपादः स्यात् ? प्रत्यक्षस्यैवोत्पादितत्वात् । अनुमानात्तु तत्प्रतिपत्तौ; तत्राप्यभावधर्मिणः प्रतीतिरनुमानान्तरादेव, इत्यत्रानवस्थादौस्थ्यस्थेमा । विकल्पादपि तत्प्रतीतिः; प्रमाणमूलात्, तन्मात्रादेव वा । न प्रथमात्; प्रमाणप्रवृत्तेस्तत्र तिरस्कृतत्वात् । विकल्पमात्रात्तु तत्प्रतीतिरसत्कल्पा, ततः कस्यापि प्रतिपत्तेरनुपपत्तेः । अन्यथा प्रामाणिकानां प्रमाणपर्येषणमरमणीयं स्यात् । तथाचाश्रयासिद्धो हेतुः । अथाप्रतिपन्नः, तर्हि कथं धर्मितयोपादायि ? । उपात्तेचास्मिन् हेतुराश्रयासिद्ध एव । अत्रोच्यते । विकल्पमात्रादेव तत्प्रतिपत्तिं ब्रूमहे । नचाश्रयासिद्धिः, अवस्तुनि विकल्पात्प्रसिद्धेरवश्याश्रयणीयत्वात् । अन्यथा वन्ध्यास्तनन्धयादिशब्दानुञ्चारणप्रसङ्गात् । नच नोच्चार्यत एवायं मयेति वाच्यम् । वान्ध्येयोऽस्ति, नास्ति वेति पर्यनुयोगे पृथ्वीपतिपरिषद्यवश्यं विधिनिषेधान्यतराभिधायिवचनस्यावकाशात् । तूष्णीं पुष्णतोऽस्याप्रतिपित्सितम् , किञ्चिदुच्चारयतो वा पिशाचकित्वप्रस. नात् । तथाविधवचनोच्चारणे च कथमेतदिति प्रमाणगवेषणेऽनुमानमुच्चार्यमाणमाश्रयासिद्धिग्रस्तम् । समस्तं निष्प्रमाणकं वचनमानं प्रेक्षावता प्रश्नकृताऽनपेक्षितमेव । नचोभयाभावोऽभिधातुं शक्यः । विधिनिषेधयोर्भावाभावस्वभावखात्, एकनिषेधेनापरविधानात् । विधिप्रतिषेधो हि निषेधः, निषेधप्रतिषेधश्च विधिः । अस्तु वोभयप्रतिषेधप्रतिज्ञा, हेतोस्तु तत्रोपादीयमानस्य नाश्रयासिद्धिपरिहारः । तदुक्तम्
"धर्मस्य कस्यचिदवस्तुनि मानसिद्धा
बाधाविधिव्यवहृतिः किमिहास्ति नो वा । अस्त्येव चेत्, कथमियन्ति न दूषणानि ? नास्त्येव चेत्, स्ववचनप्रतिरोधसिद्धिः" ॥१॥