________________
प्रमाणनयतरवालोकालङ्कार:अवस्तुनि बाधाविधिव्यवहारो नास्तीत्येतदनेनैव स्ववचनेन प्रतिरुध्यते; नास्तीतिप्रतिषेधस्य स्वयंकृतत्वात् , इत्यन्त्यपादस्यार्थः । नुरङ्गशृङ्गदृष्टान्तोऽपि विकल्पादेव प्रसिद्धः स्वीकर्तव्यः । तत्र च वस्त्वेकान्तव्यतिरेके सति भावानुत्पादकत्वमपि प्रतीतम्, इति नास्य साध्यसाधनोभयवैकल्यम्। ननु जैनैर्भावादभिन्नस्याभावस्याभ्युपगमाद्,वाद्यसिद्धो हेतुरिति चेत् । तदसत् । पराभ्युपगताभावस्य धर्मीकृतत्वात् , तस्य च भावादेकान्तेन पृथग्भूततया जैनैरपि स्वीकारात् । न खल्ववस्तु वस्तुभूताद्भावादभिन्नमिति मन्यन्ते जैनाः । ततो नाभावो भावोत्पादकस्तवास्तीति सिद्धम् । किंच । यदा प्रतिबन्धकाभावो विभावसुस्वरूपादेकान्तभिन्नोऽभ्युपागामि, तदा विभावसुः प्रतिबन्धकस्वभावः स्वीकृतः स्यात्, प्रतिबन्धकाभावाव्यावर्तमानत्वात् , मणिमन्त्रादिप्रतिबन्धकस्वरूपवत्। तथा च कथं कदाचिद्दाहादिकार्योत्पादोभवेद् ? विभावसोरेव प्रतिबन्धकत्वात् । अथ कथं विभावसुः प्रतिबन्धकः स्यात् ? तत्र प्रतिबन्धकप्रागभावस्य विद्यमानत्वात् । तदनवदातम् । एतावता हि तत्र वर्तमानः प्रतिबन्धकप्रागभाव एव प्रतिबन्धकस्वभावो मा भूत्, विभावसुखरूपं तु तदभावाव्यावर्तमान प्रतिबन्धकतां कथं न कलयेत् । यथा हि प्रतिबन्धकः स्वभावाट्यावर्चमानः प्रतिबन्धकतां दधाति, तथा तनूनपादपि प्रतिबन्धकाभावाव्यावर्त्तमानमूर्तिः कथं न प्रतिबन्धकरूपतां प्रतिपद्येत?। स्याद्वादिनां तु भावाभावोभयात्मकं वस्त्विति प्रतिबन्धकाभावात्मनः कृष्णवर्त्मनो न प्रतिबन्धकरूपता । किंच । प्रतिबन्धकाभावस्य कारणत्वे, प्रतिबन्धकस्य कस्यचिन्नैकट्येऽपि प्रतिबन्धकाभावान्तराणामनेकेषां भावात्कथं न कार्योत्पाद:। न हि कुम्भकारकारणः कुम्भः कुम्भकारस्यैकस्याभावेऽपि कुम्भकारान्तरव्यापारान्न भवति। नचैक एव कश्चित्प्रतिबन्धकाभावः कारणम्, यदभावात् तदानीं न कार्य जायते, तद्वदेव त्वन्मतेन सर्वेषामवधृतसामर्थ्यत्वात् । अथ सर्वे प्रतिबन्धकाभावाः समुदिता एव कारणम् ; न पुनरेकैकशः कुम्भकारवत् , तार्ह कदाचिदपि दाहादिकार्योत्पत्तिर्न स्यात् , तेषां सर्वेषां कदाचिदभावाद्, भुवने मणिमन्त्रतन्त्रादिप्रतिबन्धकानां भूयसां संभवात् । अथ ये प्रतिबन्धकास्त तनूनपातं