________________
रवाकरावतारिकायुक्तः। प्रतिबद्धं प्रसिद्धसामर्थ्याः, तेषामेवाभावाः सर्वे कारणम्, न तु सर्वेषाम् ; सर्वशब्दस्य प्रकारकास्न्ये वर्त्तमानस्य स्वीकारात, इति चेत् । ननु प्रसिद्धसामर्थ्या इति सामर्थ्यशब्दस्यातीन्द्रिया शक्तिः, स्वरूपं वा प्रतिबन्धकानां वाच्यं स्यात् । प्राच्यपक्षकक्षीकारे; क्षीणः क्षणेनावयोः कण्ठशोषः; अतीन्द्रियशक्तिस्वीकारात् । द्वितीयपक्षे नु त एव तं प्रति प्रतिबन्धकाः; नापरे, इति कौतस्कुती नीति: ? । स्वरूपस्योभयेषामपि भावात्। न खलु मणिमन्त्रादेः कञ्चिदेव जातवेदसमाश्रित्य तत्स्वरूपम्, न पुनर्जातवेदोऽन्तररामिति । तथा न प्रतिबन्धकस्यात्यन्ताभावस्तावत् कारणतया वक्तुं युक्तः, तस्यासत्त्वात्, अन्यथा जगति प्रतिबन्धककथांप्रत्यस्तमयप्रसङ्गात् । अपरे पुनः प्रतिबन्धकाभावा एकैकशःसहकारितां दधीरन्, द्वित्रा वा । प्रथमपक्षे प्रागभावः, प्रध्वंसाभावः, परस्पराभावः, यः कश्चिद्वा सहकारी स्यात् । न प्रथमः, प्रतिबन्धकप्रध्वंसेऽपि पावकस्य प्लोषकार्योपलम्भात् । न द्वितीयः, प्रतिबन्धकप्रागभावेऽपि दहनस्य दाहोत्पादकत्वात् । न तृतीयः, प्रतिबन्धकसंबन्धबन्धोरपि धनञ्जयस्य स्फोटघटनप्रसङ्गात्, तस्य तदानीमपि भावात् । न चतुर्थः, प्ररूपयिष्यमाणानियतहेतुकत्वदोषानुषङ्गात् । द्वित्रप्रतिबन्धकाभावभेदे तु किं प्रागभावप्रध्वंसाभावौ, प्रागभावपरस्पराभावौ, प्रध्वंसाभावपरस्पराभावी, त्रयोऽपि वा हेतवो भवेयुः । नाद्यः पक्षः, उत्तम्भकनैकट्ये तावन्तरेणापि पावकस्य प्लोषकार्यार्जनदर्शनात् । न द्वितीयतृतीयतुरीयाः, प्रतिबन्धकपरस्पराभावस्य प्राक् तदकारणत्वेन वर्णितत्वात्, भेदत्रयस्यापि चास्य परस्पराभावसंवलितत्वात् । अथ प्रागभावप्रध्वंसाभावोत्तम्भकमणिमन्त्रतन्त्रादयो यथायोगं कारणमिति चेत् । तदस्फुटम्। स्फोटादिकार्यस्यैवमनियतहेतुकत्वप्रसङ्गात् । अनियतहेतुकं चाहेतुकमेव। तथाहि- अन्वयव्यतिरेकावधार्यः कार्यकारणभावो भावानाम् ,धूमधूमध्वजयोरिव । प्रस्तुते तु प्लोषादि यदेकदैकस्मादुत्पद्यमानमीक्षामासे, तदन्यदा यद्यन्यतोऽपि स्यात् , तर्हि तत्कारणकमेव तन्न भवेदिति कथं नाहेतुकं स्यात् ? । अथ गोमयाद्, वृश्चिकाच्च वृश्चिकोत्पादः प्रेक्ष्यते । नच तत्रानियतहेतुकत्वं स्वीकृतं त्वयाऽपीति चेत् । तदपि त्रपापात्रम् ।