________________
प्रमाणनयतत्वालोकाळङ्कारः
५४
सर्वत्र हि शालूकगोमयादौ वृश्चिकडिम्भाऽऽरम्भशक्तिरेकास्ति, इति यानि तच्छक्तियुक्तानि, तानि तत्कार्योत्पादकानि, इति नायं नः कलङ्कः संक्रामति । भवतां पुनरत्राप्ययं प्रादुर्भवन् दुष्प्रतिषेधः, येषां वृश्चिकगोमयसाधारणमेकं किञ्चिन्नास्ति । न च प्रागभावप्रध्वंसाभावोत्तम्भकादीनामप्येकं किंचित्तुल्यं रूपं वर्त्तते । इति नानियतहेतुकत्वेन दुर्विधदैवेनेवामी मुच्यन्ते । एतेन ‘भावस्वभावोऽप्यभाव एवास्तु हेतुर्नत्वतीन्द्रियशक्तिस्वीकारः सुन्दर:' इत्यप्युच्यमानमपास्तम् । उक्ताभावविकल्पानामत्राप्यविशेषात् । अथ शक्तिपक्ष प्रतिक्षेपदीक्षिता आक्षपादा एवं साक्षेपमाचक्षते - ननु भवत्पक्षे प्रतिबन्धकोऽकिञ्चित्करः, किञ्चित्करो वा भवेत् । अकिञ्चित्करप्रकारे, अतिप्रसङ्गः, शृङ्गभृङ्गभृङ्गारादेरप्यकिञ्चित्करस्य प्रतिबन्धकत्वप्रसङ्गात् । किञ्चित्करस्तु किञ्चिदुपचिन्वन्, अपचिन्वन् वा स्यात् । प्राचि पक्षे, किं दाहशक्तिप्रतिकूलां शक्तिं जनयेत्, तस्या एव धर्मान्तरं वा । न प्रथमः, प्रमाणाभावात् । दाहाभावस्तु, प्रतिबन्धकसन्निधिमात्रेणैव चरितार्थ इति न तामुपपादयितुमीश्वरः । धर्मान्तरजनने तदभावे सत्येव दाहोत्पाद इत्यभावस्य कारणत्वस्वीकारः, त्वदुक्ताशेषप्रागभावादिविकल्पावकाशश्च । अपचयपक्षे तु प्रतिबन्धकस्तां शक्तिं विकुट्टयेत्, 1 तद्धर्मवा । प्रथमप्रकारे, कुतस्त्यं कृपीटयोनेः पुनः स्फोटघटनपाटवम् । तदानीमन्यैव शक्तिः संजातेति चेत् । ननु सा संजायमाना किमुत्तम्भका - तू, प्रतिबन्धकाभावाद्, देशकालादिकारकचक्राद्, अतीन्द्रियार्थान्तराद्वा जायते । आद्यभिदायाम्, उत्तम्भका भावेऽपि प्रतिबन्धकाभावमात्रात्कौतस्कुतं कार्यार्जनं जातवेदसः । द्वितीये भेदे, तत एव स्फोटोत्पत्तिसिद्धेः शक्तिकल्पनावैयर्थ्यम् । तृतीये, देशकालादिकारकचक्रस्य प्रतिबन्धककालेऽपि सद्भावेन शक्त्यन्तरप्रादुर्भावप्रसङ्गः । चतुर्थे, अतीन्द्रियार्थान्तरनिमित्तकल्पने तत एव स्फोटः स्फुटं भविष्यति, किमनया कार्यम् ? । तन्न शक्तिनाशः श्रायसः, तद्वदेव तद्धर्म्मनाशपक्षोऽपि प्रतिक्षेपणीयः । अत्राभिद
महे । एतेषु शक्तिनाशपक्ष एव कक्षीक्रियत इत्यपरविकल्पशिल्पकल्पनाजल्पाकता कण्ठशोषायैव वः संबभूव । यत्तूक्तम् - कुतः पुनरसावुत्पद्येतेति । तत्र शक्त्यन्तरसहकृतात्कृपीटयोनेरेवेति ब्रूमः । ननु प्रतिबन्धकदशायां