________________
रत्नाकरावतारिकायुक्तः । सा शक्तिरस्ति नवा । नास्ति चेत् , कुतः पुनरुत्पद्येत । शक्त्यन्तरसहकतादग्नेरेवेति चेत्, तर्हि साऽपि शक्त्यन्तरसध्रीचस्तस्मादेवोन्मज्जेदित्यनवस्था । अथास्ति, तदा तदानीमपि स्फोटोत्पादिकां शक्तिं संपादयेत्, ततोऽपि स्फोटः स्फुटं स्यादेवेति। अत्रोच्यते । प्रतिबन्धकावस्थायामप्यस्त्येव शक्त्यन्तरम् , घटयति च स्फोटघटनलम्पटां शक्तिं तदाऽपि। यस्तु तदा स्फोटानुत्पादः, स प्रतिबन्धकेनोत्पन्नोत्पन्नायास्तस्याः प्रध्वंसात्। प्रतिबन्धकापगमे तु स्फोटः स्फुटीभवत्येवेत्यतीन्द्रियशक्तिसिद्धिः। अत्राऽऽशङ्कान्तरपरीहारप्रकारमौक्तिककणप्रचयावचायः स्याद्वादरत्नाकरात्तार्किकैः कर्त्तव्यः । एवं च स्वाभाविकशक्तिमान् शब्दोऽर्थ बोधयतीति सिद्धम्। अथ तदङ्गीकारे तत एवार्थसिद्धेः सङ्केतकल्पनाऽनर्थिकैव स्यादिति चेत् । नैवम् । अस्य सहकारितया स्वीकारात् ; अङ्कुरोत्पत्तौ पयःपृथिव्यादिवत् । अथ स्वाभाविकसंबन्धाभ्युपगमे देशभेदेन शब्दानामर्थभेदो न भवेद्, भवति चायम् , चौरशब्दस्य दाक्षिणात्यैरोदने प्रयोगादिति चेत् । तदशस्यम् । सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् । यत्र च देशे यदर्थप्रतिपादनशक्तिसहकारी संकेतः, स तमर्थ तत्र प्रतिपादयतीति सर्वमवदातम् । सौगतांस्तु प्रत्येवं विधेयानुवाद्यभावः-योऽयं शब्दो वर्णात्माऽऽवयोः प्रसिद्धः, स स्वाभाविकसामर्थ्यसमयाभ्यां कृत्वा ऽर्थबोधनिबन्धनमेवेति । अथ स्वाभाविकसामर्थ्यसमयाभ्यां शब्दस्यार्थे सामान्यरूपे, विशेषलक्षणे, तदुभयस्वभावे वा वाचकलं व्याक्रियेत । न प्रथमे, सामान्यस्यार्थक्रियाकारित्वाभावेन नभोऽम्भोजसन्निभत्वात् । न द्वैतीयीके, विशेषस्य स्खलक्षणलक्षणस्य वैकल्पिकविज्ञानागोचरत्वेन संकेतास्पदत्वासंभवात्। तत्सम्भवेऽपि विशेषस्य व्यवहारकालाननुयायित्वेन संकेतनैरर्थक्यात् । तार्तीयीके तु स्वतन्त्रयोः, तादात्म्यापन्नयोर्वा सामान्यविशेषयोस्तद्गोचरता संगीर्येत । नाद्यः पक्षः, प्राचिकविकल्पोपदर्शितदोपानुषङ्गात् । न द्वितीयः, सामान्यविशेषयोर्विरुद्धधर्माध्यासितत्वेन तादात्म्यायोगादिति नार्थो वाच्यो वाचाम्, अपि तु परमार्थतः सर्वतो व्यावृत्तस्वरूपेषु स्वलक्षणेष्वेकार्थकारित्वेन,एककारणत्वेन चोपजायमानैकप्रत्यवमर्शरूपविकल्पस्याकारो बाह्यत्वेनाभिमन्यमानो बुद्धिप्रतिबिम्ब