________________
५६ प्रमाणनयतवाकोकालद्वार:व्यपदेशभागपोहः; शब्दश्रुतौ सत्यां तादृशोल्लेखशेखरस्यैव वेदनस्योत्पादात् । अपोहत्वं चास्य स्वाकारविपरीताकारोन्मूलकत्वेनावसेयम् । अपोह्यते स्वाकाराद्विपरीत आकारोऽनेनेत्यपोह इतिव्युत्पत्तेः । तत्त्वतस्तु न किञ्चिद्वाच्यं वाचकं वा विद्यते, शब्दार्थतया कथिते बुद्धिप्रतिबिम्बात्मन्यपोहे कार्यकारणभावस्यैव वाच्यवाचकतया व्यवस्थापितत्वात् ।
___“अथ श्रीमदनेकान्तसमुद्घोषपिपासितः ।।
अपोहमापिबामि द्राग् वीक्षन्तां भिक्षवः क्षणम्॥१॥ इह तावद्विकल्पानां तथाप्रतीतिपरिहृतविरुद्धधर्माध्यासकथञ्चित्तादात्म्यापनसामान्यविशेषस्वरूपवस्तुलक्षणाक्षूणदीक्षादीक्षितत्वं प्राक् प्राकट्यत । ततस्तत्त्वतः शब्दानामपि तत्प्रसिद्धमेव । यतोऽजल्पि युष्मदीयैः “स एव शब्दानां विषयो यो विकल्पानाम्" इति कथमपोहः शब्दार्थः स्यात् । अस्तु वा तथाऽप्यनुमानवत् किं न शब्दः प्रमाणमुच्यते । अपोहगोचरत्वेऽपि परम्परया पदार्थ प्रतिबन्धात् प्रमाणमनुमानमिति चेत्, तत एव शब्दोऽपि प्रमाणमस्तु । अतीतानागताम्बरसरोजादिष्वसत्स्वपि शब्दोपलम्भानात्रार्थप्रतिबन्ध इति चेत्, तीभूद् वृष्टिः; गिरिनदीवेगोपलम्भाद्, भावी भरण्युदयः; रेवत्युदयात् , नास्ति रासभशृङ्गम् ; समाप्रमाणैरनुपलम्भात्, इत्यादेरर्थाभावेऽपि प्रवृत्तेऽनुमानेऽपि नार्थप्रतिबन्धः स्यात् । यदि वचोवाच्यापोहोऽपि पारम्पर्येण पदार्थप्रतिष्ठः स्यात् , तदानीमलाबूनि मज्जन्तीत्यादिविप्रतारकवाक्यापोहोऽपि तथा भवेदिति चेत्, अनुमेयापोहेऽपि तुल्यमेतत्, प्रमेयत्वादिहेत्वनुमेयापोहेऽपि पदार्थप्रतिष्ठताप्रसक्तेः । प्रमेयत्वं हेतुरेव न भवति, विपक्षासत्त्वतल्लक्षणाभावादिति कुतस्त्या तदपोहस्य तन्निष्ठतेति चेत् , तार्ह विप्रतारकवाक्यमप्यागम एव न भवति, आप्तोक्तत्वतल्लक्षणाभावादित्यादि समस्तं समानम्। यस्तु नातोक्तत्वं वचसि विवेचयितुं शक्यमिति शाक्यो वक्ति, स पर्यनुयोज्यः। किमाप्तस्यैव कस्याप्यभावादेवमभिधीयेत, भावेऽप्यस्य निश्चयाभावात् ,निश्चयेऽपि मौनव्रतिकत्वाद्, वक्तृत्वेऽप्यनाप्तवचनात् ,नद्वचसो विवेकावधारणाभावाद्वा। सर्वमप्येतच्चार्वाकादिवाचां प्रपश्चात् , मातापितृपुत्रभ्रातूगुरुसुगतादिवचसां विशेषमातिष्ठमानैरप्रकटनीयमेव । नच नास्ति