________________
रवाकरावतारिकायुक्तः। विशेषस्वीकारः,तत्पठितानुष्ठानघटनायामेव प्रवृत्तेर्निर्निबन्धनत्वापत्तेः । अथानुमानिक्येवाप्तशब्दादर्थप्रतीतिः ; ( कथम् !)
पादपार्थविवक्षावान् पुरुषोऽयं प्रतीयते ।
वृक्षशब्दप्रयोक्तृत्वात्, पूर्वावस्थास्वहं यथा ॥ १॥ तवस. इति विवक्षामनुमाय, सत्या विवक्षेयम्; आप्तविवक्षात्वात् , मद्विवक्षावदिति वस्तुनो निर्णयादिति चेत्। तदचतुरस्रम् । अमूदृशव्यवस्थाया अनन्तरोक्तवैशेषिकपक्षप्रतिक्षेपेण कृतनिर्वचनत्वात् । किंच । शाखादिमति पदार्थे वृक्षशब्दसङ्केते सत्येतद्विवक्षाऽनुमानमातन्येत, अन्यथा वा । न तावदन्यथा। केनचित्कक्षे वृक्षशब्दं संकेत्य तदुच्चारणात् , उन्मत्तसुप्तशुकसारिकादिना गोत्रस्खलनवता चान्यथाऽपि तत्प्रातिपादनाच्च हेतोर्व्यभिचारापत्तेः। संकेतपक्षे तु यद्येष तपस्वी शब्दस्तद्वशाद्वस्त्वेव वदेत् , तदा किं नाम सूणं स्यात् । न खल्वेषोऽर्थाद्विभेति । विशेषलाभश्चैवं सति यदेवंविधाननुभूयमानपारंपर्यपरित्याग इति । यदकथि-परमार्थतः सर्वतोऽव्यावृत्तस्वरूपेषु स्वलक्षणेष्वेकार्थकारित्वेनेत्यादि । तदवद्यम् । यतोऽर्थस्य वाहदोहादेरेकत्वम् , अद्विरूपत्वं, समानत्वं वा विवक्षितम् । न तावदाद्यः पक्षः, षण्डमुण्डादौ कुण्डकाण्डभाण्डादिवाहादेरर्थस्य भिन्नभिन्नस्यैव संदर्शनात् । द्वितीयपक्षेऽपि सदृशपरिणामास्पदत्वम् , अन्यव्यावृत्त्यधिष्ठितत्वं वा समानत्वं स्यात् । न प्राच्यः प्रकारः, सदृशपरिणामस्य सौगतैरस्वीकृतत्वात्। न द्वितीयः, अन्यव्यावृत्तरतात्त्विकत्वेन वान्ध्येयस्येव स्वलक्षणेऽधिष्ठानासंभवात् । किंच। अन्यतः सामान्येन, विजातीयाद्वा व्यावृत्तिरन्यव्यावृत्तिर्भवेत् । प्रथमपक्षे, न किञ्चिदसमानं स्यात् , सर्वस्यापि सर्वतो व्यावृत्तत्वात् । द्वितीये तु विजातीयत्वं वाजिकुञ्जरादिकार्याणां वाहादिसजातीयत्वे सिद्धे सति स्यात् , तच्चान्यव्यावृत्तिरूपमन्येषां विजातीयत्वे सिद्धे सति, इति स्पष्टं परस्पराश्रयत्वमिति । एवं च कारगैक्य, प्रत्यवम क्यं च विकल्प्य दूषणीयम् । अपिच । यदि बुद्धिप्रतिबिम्बात्मा शब्दार्थः स्यात् , तदा कथमतो बहिरर्थे प्रवृत्तिः स्यात् ।। स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायाञ्चेत् । ननु कोऽयमर्थाध्यवसायो नाम । अर्थसमारोप इति चेत् , तार्ह सोऽयमर्थानर्थयोरग्निमाणवकयोरिव तद्वि