________________
प्रमाणनयवस्वालोकालङ्कार:कल्पविषयभावे सत्येव समुत्पत्तुमर्हति । नच समारोपविकल्पस्य स्खलक्षणं कदाचन गोचरतामञ्चति । यदि चानर्थेऽर्थसमारोपः स्यात्, तदा वाहदोहाद्यर्थक्रियार्थिनः सुतरां प्रवृत्तिर्न स्यात् । नहि दाहपाकाद्यर्थी समारोपितपावकत्वे माणवके कदाचित्प्रवर्त्तते । रजतरूपताऽवभासमानशुक्तिकायामिव रजतार्थिनो अक्रियार्थिनो विकल्पात्तत्र प्रवृत्तिरिति चेत् । भ्रान्तिरूपस्तबयं समारोपः, तथाच कथं ततः प्रवृत्तोऽर्थक्रियार्थी कृतार्थः स्यात् । यथा शुक्तिकायां प्रवृत्तो रजतार्थक्रियार्थीति । यदपि प्रोक्तम्-कार्यकारणभाव स्यैव वाच्यवाचकतया व्यवस्थापितत्वादिति । तदप्ययुक्तम् । यतो यदि कार्यकारणभाव एव वाच्यवाचकभावः स्यात् , तदा श्रोत्रज्ञाने प्रतिभासमानः शब्दः स्वप्रतिभासस्य भवत्येव कारणमिति तस्याप्यसौ वाचकः स्यात् । यथा च विकल्पस्य शब्दः कारणम् , एवं परंपरया खलक्षणमपि, अतस्तदपि वाचकं भवेदिति प्रतिनियतवाच्यवाचकभावव्यवस्थानं प्रलयपद्धतिमनुधावेत्। ततः शब्दः सामान्यविशेषात्मकार्थावबोधनिबन्धनमेवेति स्थितम् ॥ ११ ॥
स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्द इत्युक्तम् । अथ किमस्य शब्दस्य स्वाभाविक रूपं, किंच परापेक्षमिति विवेचयन्तिअर्थप्रकाशकलमस्य खाभाविकं प्रदीपवद्यथार्थायथार्थ
वे पुनः पुरुषगुणदोषावनुसरतः॥१२॥ . अर्थप्रकाशकत्वम् , अर्थावबोधसामर्थ्यम् । अस्य शब्दस्य। स्वाभाविक परानपेक्षम्। प्रदीपवत् । यथा हि प्रदीपः प्रकाशमानः शुभमशुभं वा यथासन्निहितं भावमवभासयति, तथा शब्दोऽपि वक्त्रा प्रयुज्यमानः श्रुतिवतिनीमवतीर्णः सत्येऽनृते वा, समन्वितेऽसमन्विते वा, सफले निष्फलेवा, सिद्धे साध्ये वा वस्तुनि प्रतिपत्तिमुत्पादयतीति तावदेवास्य स्वाभाविक रूपम् । अयं पुनः प्रदीपाच्छब्दस्य विशेषः-यदसौ संकेतव्युत्पत्तिमपेक्षमाणः पदार्थप्रतीतिमुपजनयति, प्रदीपस्तु तन्निरपेक्षः । यथार्थत्वायथार्थत्वे सत्यार्थत्वासत्यार्थत्वे पुनः प्रतिपादकनराधिकरणशुद्धत्वाशुद्धत्वे अनुसरतः । पुरुषगुणदोषापेक्षे इत्यर्थः । तथाहि-सम्यग्दर्शिनि