________________
रत्नाकरावतारिकायुक्तः। ५९ शुचौ पुरुषे वक्तरि यथार्थी शाब्दी प्रतीतिरन्यथा तु मिथ्यार्थेति । स्वाभाविके तु याथायें मिथ्यार्थत्वे चास्याः स्वीक्रियमाणे विप्रतारकेतरपुरुषप्रयुक्तवाक्येषु व्यभिचाराव्यभिचारनियमो न भवेत् । पुरुषस्य च करुणादयो गुणा द्वेषादयो दोषाः प्रतीता एव । तत्र यदि पुरुषगुणानां प्रामाण्यहेतुत्वं नाभिमन्यते जैमिनीयैः, तार्ह दोषाणामप्यप्रामाण्यनिमित्तता मा भूत् । दोषप्रशमनचरितार्था एव पुरुषगुणाः, प्रामाण्यहेतवस्तु न भवन्तीत्यत्र च कोशपानमेव शरणं श्रोत्रियाणामिति ॥ १२॥
इह यथैवान्तर्बहिर्वा भावराशिः स्वरूपमाबिति, तथैव तं शब्देन प्रकाशयतां प्रयोक्तृणां प्रावीण्यमुपजायते । तं च तथाभूतं सप्तभङ्गीसमनुगत एव शब्दः प्रतिपादयितुं पटीयानित्याहुःसर्वत्रायं ध्वनिर्विधिप्रतिषेधाभ्यां स्वार्थमभिधानः सप्त
भङ्गीमनुगच्छति ॥१३॥ सदसन्नित्यानित्यादिसकलैकान्तपक्षविलक्षणानेकान्तात्मके वस्तुनि विधिनिषेधविकल्पाभ्यां प्रवर्त्तमानः शब्दः सप्तभङ्गीमङ्गीकुर्वाण एव प्रवर्त्तत इति भावः ॥ १३ ॥
अथ सप्तभङ्गीमेव स्वरूपतो निरूपयन्तिएकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्कारा
कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी ॥१४॥ एकत्र जीवादौ वस्तुन्येकैकसत्त्वादिधर्मविषयप्रश्नवशादविरोधेन प्रत्यक्षादिबाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छब्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यासः सप्तभङ्गी विज्ञेया । भज्यन्ते भिद्यन्तेऽर्था यैस्ते भङ्गा वचनप्रकारास्ततः सप्तभङ्गाः समाहृताः सप्तभङ्गीति कथ्यते। नानाव