________________
मवाणनयतत्वालोकालकार:स्त्वाश्रयविधिनिषेधकल्पनया शतभङ्गीप्रसङ्गनिवर्त्तनाथमकत्र वस्तुनीत्युपन्यस्तम् । एकत्रापि जीवादिवस्तुनि विधीयमाननिषिध्यमानानन्तधर्मपर्यालोचनयाऽनन्तभङ्गीप्रसक्तिव्यावर्तनार्थमेकैकधर्मपर्यनुयोगवशादित्युपात्तम् । अनन्तेष्वपि हि धर्मेषु प्रतिधर्म पर्यनुयोगस्य सप्तधैव प्रवर्तमानत्वात् । तत्प्रतिवचनस्यापि सप्तविधत्वमेवोपपन्नमित्येकैकस्मिन् धर्मे एकैकैव सप्तभङ्गी साधीयसी । एवं चानन्तधर्मापेक्षया सप्तभङ्गीनामानन्त्यं यदायाति, तदभिमतमेव । एतचाग्रे सूत्रत एव निर्णेष्यते । प्रत्यक्षादिविरुद्धसदायेकान्तविधिप्रतिषेधकल्पनयाऽपि प्रवृत्तस्य वचनप्रयोगस्य सप्तभङ्गीत्वानुषङ्गभङ्गार्थमविरोधेनेत्यभिहितम् । अवोचाम च
या प्रश्नाद्विधिपर्युदासभिदया बाधच्युता सप्तधा धर्म धर्ममपक्ष्य वाक्यरचनाऽनेकात्मके वस्तुनि । निर्दोषा निरदेशि देव! भवता सा सप्तभङ्गी यया
जल्पन जल्परणाङ्गणे विजयते वादी विपक्षं क्षणात् ॥१॥ इदं च सप्तभङ्गीलक्षणं प्रमाणनयसप्तभङ्ग्योः साधारणमवधारणीयम् । विशेषलक्षणं पुनरनयोरने वक्ष्यते ॥१४॥
अथास्यां प्रथमभङ्गोल्लेखं तावदर्शयन्तितद्यथा-स्यादस्त्येव सर्वमिति विधिविकल्पनया प्रथमो
भङ्गः ॥१५॥ स्यादित्यव्ययमनेकान्तावद्योतकं स्यात्कथञ्चित्स्वद्रव्यक्षेत्रकालभावरूपेणास्त्येव सर्व कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण । तथाहिकुम्भो द्रव्यतः पार्थिवत्वेनास्ति, न जलादिरूपत्वेन; क्षेत्रतः पाटलिपुत्रकत्वेन, न कान्यकुब्जादित्वेन; कालतः शैशिरत्वेन, न वासन्तिकादित्वेन; भावतः श्यामत्वेन, न रक्तत्वादिना । अन्यथेतररूपापत्त्या स्वरूपहानिप्रसङ्ग इति । अवधारणं चात्र भङ्गेऽनभिमतार्थव्यावृत्त्यर्थमुपात्तम् । इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्येत, प्रतिनियतवार्थानभिधानात्।