________________
रनाकरावंतारिकायुक्तः ।
तदुक्तम्
"वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये ।। - कर्त्तव्यमन्यथाऽनुक्तसमत्वात् तस्य कुत्रचित् ॥ १॥ तथाऽप्यत्येव कुम्भ इत्येतावन्मात्रीपादाने कुम्भस्य स्तम्भाद्यस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राप्तेः प्रतिनियतस्वरूपानुपपत्तिः स्यात् , तत्वतिपत्तये स्यादिति प्रयुज्यते, स्यात्कथञ्चित्वद्रव्यादिभिरेवायमस्ति, न परद्रव्यादिभिरपीत्यर्थः। यत्रापि चासौ न प्रयुज्यते तत्रापि व्यवच्छेदफलैवकारवद् बुद्धिमद्भिः प्रतीयत एव । यदुक्तम्" सोऽप्रयुक्तोऽपि वा तज्ज्ञः सर्वत्रार्थात्प्रतीयते ।
यथैवकारो योगादिव्यवच्छेदप्रयोजनः॥१॥ १५ ॥ अथ द्वितीयभङ्गोल्लेखं ख्यापयन्तिस्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः ॥१६॥
स्वद्रव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसत्त्वानिष्टौ हि प्रतिनियतस्वरूपाभावाद्वस्तुप्रतिनियमविरोधः । नचास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्धमित्यभिधानीयम् । कथञ्चित्तस्य वस्तुनि युक्तिसिद्धत्वासाधनवत् । नहि कचिदनित्यत्वादौ साध्ये सत्त्वादिसाधनस्यास्तित्वं विपक्षे नास्तित्वमन्तरेणोपपन्नम् ; तस्य साधनाभासत्वप्रसङ्गात् । अथ यदेव नियतं साध्यसद्भावेऽस्तित्वं तदेव साध्याभावे साधनस्य नास्तित्वमभिधीयते; तत्कथं प्रतिषेध्यम् ? स्वरूपस्य प्रतिषेधत्वानुपपत्तेः, साध्यसद्भावे नास्तित्वं तु यत्तत्प्रतिषेध्यम् , तेनाविनाभावित्वे साध्यसद्भावास्तित्वस्य व्याघातात्तेनैव स्वरूपेणास्ति नास्ति चेति प्रतीत्यभावादिति चेत् । तदसत्। एवं हेतोत्रिरूपत्वविरोधात् । विपक्षासत्त्वस्य तात्त्विकस्याभावात् । यदि चायं भावाभावयोरेकत्वमाचक्षीत; तदा सर्वथा न कचित्प्रवर्तेत । नापि कुतश्विनिवर्तेत । प्रवृत्तिनिवृत्तिविषयस्य भावस्याभावपरिहारेणासंभवात्, अभावस्य च भावपरिहारेणेति वस्तुनोऽस्तित्वनास्तित्वयो रूपान्तरत्व