________________
१००
प्रमाणनयतत्वालोकालङ्कारः
कथनमिति न दोषः । आदिशब्दसूचितास्तु पक्षाभासास्त्रयः स्मरणप्रत्यभिज्ञानतर्कनिराकृतसाध्यधर्मविशेषणाः । तत्र स्मरणनिराकृतसा - ' ध्यधर्मविशेषणो यथा, स सहकारतरुः फलशून्य इति, अयं पक्षः कस्य - चित्सहकारतरुं फलभरभ्राजिष्णुं सम्यक् स्मर्तुः स्मरणेन वाध्यते । प्रत्यभिज्ञाननिराकृतसाध्यधर्मविशेषणो यथा, सदृशेऽपि क्वचन वस्तुनि कश्चन कञ्चनाधिकृत्योर्द्धतासामान्यभ्रान्त्या पक्षी कुरुते तदेवेदम । तस्यायं पक्षस्तिर्यक्सामान्यावलम्बिना तेन सदृशमिदमिति प्रत्यभिज्ञानेन निराक्रियते । तर्कनिराकृतसाध्यधर्मविशेषणो यथा, यो यस्त पुत्रः, स श्याम इति व्याप्तिः समीचीनेति । अस्यायं पक्षो यो जनन्युपभुक्तशाकाद्याहारपरिणामपूर्वकस्तत्पुत्रः, स श्याम इति व्याप्तिप्राहिणा सम्यक्तर्केण निराक्रियते ॥ ४५ ॥
द्वितीयं पक्षाभासं सभेदमुपदर्श्य तृतीयमुपदर्शयन्तिअनभीप्सित साध्यधर्मविशेषणो यथा स्याद्वादिनः शाश्वतिक एव कलशादिरशाश्वतिक एव वेति वदतः ॥ ४६ ॥
स्याद्वादिनो हि सर्वत्रापि वस्तुनि नित्यत्वैकान्तः, अनित्यत्वैकान्तो वा नाभीप्सितः, तथापि कदाचिदसौ सभाक्षोभादिनैवमपि वदेत् । एवं नित्यः शब्द इति ताथागतस्य वदतः प्रकृतः पक्षाभासः । ये त्वप्रसिद्धविशेषणाप्रसिद्धविशेष्याप्रसिद्धोभयाः पक्षभासाः परैः प्रोचिरे, नामी समीचीनाः । अप्रसिद्धस्यैव विशेषणस्य साध्यमानत्वात्, अन्यथा सिद्धसाध्यताऽवतारात् । अथात्र सार्वत्रिकः प्रसिद्ध्यभावो विवक्षितो नतु तत्रैव धर्मिणि, यथा साङ्ख्यस्य विनाशित्वं क्वापि धर्मिणि न प्रसिद्धम् ; तिरोभावमात्रस्यैव सर्वत्र तेनाभिधानात् । तदयुक्तम् । एवं सति क्षणिकतां साधयतो भवतः कथं नाप्रसिद्धविशेषणत्वं दोषो भवेत् ?, क्षणिकतायाः सपक्षे काप्यप्रसिद्धेः । विशेष्यस्य तु धर्मिणः सिद्धिर्विकल्पादपि प्रतिपादितेति कथमप्रसिद्धताऽस्य ? । एतेन प्रसिद्ध भयोऽपि परास्तः ॥ ४६ ॥