________________
रवाकरावतारिकायुक्तः।-
१०१
पक्षाभासान्निरूप्य हेत्वाभासानाहुःअसिद्धविरुद्धानकान्तिकास्त्रयो हेवाभासाः॥४७॥ निश्चितान्यथाऽनुपपत्त्याख्यैकहेतुलक्षणविकलत्वेनाहेतवोऽपिहेतुस्थाने निवेशाद्धेतुवदाभासमाना हेत्वाभासाः ॥४७॥
तत्रासिद्धमभिदधतियस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः॥
अन्यथाऽनुपपत्तेर्विपरीताया अनिश्चितायाश्च विरुद्धानकान्तिकत्वेन कीर्तयिष्यमाणत्वादिह हेतुस्वरूपाप्रतीतिद्वारैकैवान्यथाऽनुपपत्त्यप्रतीतिरवशिष्टा द्रष्टव्या; हेतुस्वरूपाप्रतीतिश्चेयमज्ञानात् , सन्देहाद्, विपर्ययाद् वा विज्ञेया ॥४८॥
अथामुं भेदतो दर्शयन्तिस द्विविध उभयासिद्धोऽन्यतरासिद्धश्च ॥ ४९॥
उभयस्य वादिप्रतिवांदिसमुदायस्यासिद्धः; अन्यतरस्य वादिनः, प्रतिवादिनो वाऽसिद्धः ॥४९॥
तत्राद्यभेदं वदन्तिउभयासिद्धो यथा परिणामी शब्दश्चाक्षुषत्वात् ॥५०॥
चक्षुषा गृह्यत इति चाक्षुषस्तस्य भावश्चाक्षुषत्वं तस्मात् । अयं च वादिप्रतिवादिनोरुभयोरप्यसिद्धः, श्रावणत्वाच्छब्दस्य ॥ ५०॥
द्वितीयं भेदं वदन्तिअन्यतरासिद्धो यथा अचेतनास्तरवो विज्ञानेन्द्रियायु
निरोधलक्षणमरणरहितत्वात् ॥५१॥ .. ताथागतो हि तरूणामचैतन्यं साधयन् विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वादिति हेतूपन्यासं कृतवान् । स च जैनानां तरुचैतन्यवादिनामासद्धः । तदागमे द्रुमेष्वपि विज्ञानेन्द्रियायुषांप्रमाणत: प्रतिष्ठितत्वात् । इदं च प्रतिवाद्यसिद्ध्यपेक्षयोदाहरणम् । वाद्यसिद्ध्यपेक्षया तु