________________
१०१
प्रमाणनयतत्त्वालोकालकार:- .
अचेतनाः सुखादयः, उत्पत्तिमत्त्वादिति। अत्र हि वादिनः सांख्यलोत्पत्तिमत्त्वमप्रसिद्धम् ; तेनाविर्भावमात्रस्यैव सर्वत्र स्वीकृतत्वात् । - नन्वित्थमसिद्धप्रकारप्रकाशनं परैश्चक्रे- स्वरूपेणासिद्धः, स्वरूपं वाऽसिद्धं यस्य सोऽयं स्वरूपासिद्धः, यथा अनित्यः शब्दः, चाक्षुषत्वादिति । ननु चाक्षुषत्वं रूपादावस्ति, तेनास्य व्यधिकरणासिद्धत्वं युक्तम्, न; रूपाद्यधिकरणत्वेनाप्रतिपादितत्वात् । शब्दधर्मिणि चोपदिष्टं चाक्षुषत्वं न स्वरूपतोऽस्तीति स्वरूपासिद्धम् । विरुद्धमधिकरणं यस्य स चासावसिद्धश्चेति व्यधिकरणासिद्धो यथा, अनित्यः शब्दः, पटस्य कृतकत्वादिति । ननु शब्देऽपि कृतकत्वमस्ति, सत्यं, न तु तथा प्रतिपादितम् । नचान्यत्र प्रतिपादितमन्यत्र सिद्ध भवति। मीमांसकस्य वा कुर्वतो व्यधिकरणासिद्धम्। २ । विशेष्यमसिद्धं यस्यासौ विशेष्यासिद्धो यथा, अनित्यः शब्दः, सामान्यवत्त्वे सति चाक्षुषत्वात्।३। विशेषणासिद्धो यथा, अनित्यः शब्दः, चाक्षुषत्वे सति सामान्यवत्त्वात्। ४ । पक्षैकदेशासिद्धपर्यायः पक्षभागेऽसिद्धत्वात् भागासिद्धो यथा, अनित्यः शब्दः, प्रयत्नानन्तरीयकत्वात् । ननु च वाद्यादिसमुत्थशब्दानामपीश्वरप्रयत्नपूर्वकत्वात् कथं भागासिद्धत्वम् ? । नैतत् । प्रयत्नस्य तीव्रमन्दादिभावानन्तरं शब्दस्य तथाभावो हि प्रयत्नानन्तरीयकत्वं विवक्षितम् । नचेश्वरप्रयत्नस्य तीव्रादिभावोऽस्ति; नित्यत्वात्। अनभ्युपगतेश्वर प्रति वा भागासिद्धत्वम्। ५ । आश्रयासिद्धो यथा, अस्ति प्रधान, विश्वस्य परिणामिकारणत्वात् । ६ । आश्रयैकदेशासिद्धो यथा, नित्याः प्रधानपुरुषेश्वराः, अकृतकत्वात् । अत्र जैनस्य पुरुषः सिद्धो न प्रधानेश्वरौ ।। सन्दिग्धाश्रयासिद्धो यथा, गोत्वेन सन्दिह्यमाने गवये आरण्यकोऽयं गौः, जनदर्शनोत्पन्नत्रासत्वात् । ८। सन्दिग्धाश्रयैकदेशासिद्धो यथा, गोत्वेन सन्दिह्यमाने गवये गवि च आरण्यकावेतौ गावौ, जनदर्शनोत्पन्नत्रासत्वात् । ९ । आश्रयसन्दिग्धवृत्त्यसिद्धो यथा, आश्रयहेत्वोः स्वरूपनिश्चये आश्रये हेतुवृत्तिसंशये मयूरवानयं प्रदेशः, केकायितोपेतत्वात् । १० । आश्रयैकदेशसन्दिग्धवृत्त्यसिद्धो यथा, आश्रयहेत्वोः स्वरूपनिश्चये सत्येवाश्रयैकदेशे हेतुवृत्तिसंशये मयूरवन्तावेतौ सहकारकर्णिकारौ, तत