________________
रवाकरावसारिकायुक्तः। २०६ एव । ११ । व्यर्थविशेषणासिद्धो यथा, अनित्यः शब्दः, सामान्यवक्त्वे सति कृतकत्वात् । १२ । व्यर्थविशेष्यासिद्धो यथा, अनित्यः शब्दः, कृतकत्वे सति सामान्यवत्त्वात् । १३ । सन्दिग्धासिद्धो यथा, धूमबाप्पादिविवेकानिश्चये कश्चिदाह -वह्निमानयं प्रदेशः, धूमवत्त्वात् । १४ । संदिग्धविशेष्यासिद्धो यथा, अद्यापि रागादियुक्तः कपिलः, पुरुषत्वे सत्यद्याप्यनुत्पन्नतत्त्वज्ञानत्वात् । १५ । संदिग्धविशेषणासिद्धो यथा, अद्यापि रागादियुक्तः कपिलः, सर्वदा तत्त्वज्ञानरहितत्वे सति पुरुषत्वात् । १६ । एकदेशासिद्धो यथा, प्रागभावो वस्तु, विनाशोत्पादधर्मकत्वात् । १७ । विशेषणैकदेशासिद्धो यथा, तिमिरमभावस्वभावं, द्रव्यगुणकर्मातिरिक्तत्वे सति कार्यत्वात् । अत्र जैनान् प्रति तिमिरे द्रव्यातिरेको न सिद्धः । १८ । विशेष्यैकदेशासिद्धो यथा, तिमिरमभावस्वभावं, कार्यत्वे सति द्रव्यगुणकर्मातिरिक्तत्वात्।१९ । संदिग्धैकदेशासिद्धो यथा, नायं पुरुषः सर्वज्ञः, रागवक्तृत्वोपेतत्वात् । अत्र लिङ्गादनिश्चिते रागित्वे सन्देहः ।२०। संदिग्धविशेषणैकदेशासिद्धो यथा, नायं पुरुषः सर्वज्ञः, रागवक्तृत्वोपेतत्वे सति पुरुषत्वात् ।२१ । सन्दिग्धविशेष्यैकदेशासिद्धो यथा, नाय पुरुषः सर्वज्ञः, पुरुषत्वे सति रागवक्तृत्वोपेतत्वात् ।२२। व्यर्थैकदेशासिद्धो यथा, आग्निमानयं पर्वतप्रदेशः, प्रकाशधूमोपेतत्वात् । २३। व्यर्थविशेषणैकदेशासिद्धो यथा, गुणः शब्दः, प्रमेयत्वसामान्यवत्त्वे सति बाबैकेन्द्रियग्राह्यत्वात् । अत्र बायैकेन्द्रियग्राह्यस्यापि रूपत्वादिसामान्यस्य गुणवाभावाव्यभिचारपरिहाराय सामान्यवत्त्वे सतीति सार्थकम् ; प्रमेयत्वं तु व्यर्थम् । २४ । व्यर्थविशेष्यैकदेशासिद्धो यथा, गुणः शब्दो बाबैकेन्द्रियग्राह्यत्वे सति प्रमेयत्वसामान्यवस्वात् । २५ । एवमन्येऽप्येकदेशासिद्ध्यादिद्वारेण भूयांसोऽसिद्धभेदाः स्वयमभ्यूह्य वाच्याः । उदाहरणेषु चैतेषु दूषणान्तरस्य सम्भवतोऽप्यप्रकृतत्वादनुपदर्शनम् । त एते भेदा भवद्भिः कथं नाभिहिताः ? ॥ .
. . उच्यते । एतेषु ये हेत्वाभासतां भजन्ते, ते यदोभयवाद्यसिद्धत्वेन विवक्ष्यन्ते, तदोभयासिद्धेऽन्तर्भवन्ति । यदात्वन्यतरासिद्धत्वेन तदाऽन्यतरासिद्ध इति । व्यधिकरणासिद्धस्तु हेत्वाभासो न भवत्येव ।