________________
प्रमाणनयतत्वालोफाळङ्कारः
व्यधिकरणादपि पित्रोर्ब्राह्मण्यात्पुत्रे ब्राह्मण्यानुमानदर्शनात्, मटभटादीनामपि ब्राह्मण्यं कस्मान्नायं साधयतीति चेत् । पक्षधर्मोऽपि पर्व - . तद्रव्यता; तत्र चित्रभानुं किमिति नानुमापयति ? इति समानम् ; व्यभिचाराच्चेत्, तदपि तुल्यम् । तत्पित्रोर्ब्राह्मण्यं हि तद्गमकम् । एवं तर्हि प्रयोजकसंबन्धेन संबद्धो हेतुः कथं व्यधिकरणः ? इति चेत् । ननु यदि साध्याधिगमप्रयोजकसंबन्धाभावाद्वैयधिकरण्यमुच्यते । तदानीं संमतमेवैतदस्माकं दोषः, किन्तु प्रमेयत्वादयोऽपि व्यधिकरणा एव वाच्याः स्युर्न व्यभिचार्यादयः । तस्मात्पक्षान्यधर्मत्वाभिधानादेव व्यधिकरणो हेत्वाभासस्ते सम्मतः, स चागमक इति नियमं प्रत्याचक्ष्महे । अथ प्रतिभोहशक्त्याऽन्यथाभिधानेऽपि ब्राह्मणजन्यत्वादित्येवं हेत्वर्थ प्रतिपद्य साध्यं प्रतिपद्यते इति चेदेवं तर्हि प्रतिभोहशक्त्यैव पटस्य कृतकत्वादित्यभिधानेऽपि पटस्य कृतकत्वादनित्यत्वं दृष्टम्, एवं शब्दस्यापि तत एव तदस्त्विति प्रतिपत्तौ नायमपि व्यधिकरणः स्यात्; तस्माद्यथोपात्तो हेतुस्तथैव तद्गमकत्वं चिन्तनीयम् । नच यस्मात्पटस्य कृतकत्वं तस्मात्तदन्येनाप्यनित्येन भवितव्यमित्यस्ति व्याप्तिः । अतोऽसौ व्यभिचारादेवागमकः । • एवं काककादिरपि । कथं वा व्यधिकरणोऽपि जलचन्द्रो नभश्चन्द्रस्य, कृत्तिकोदयो वा शकटादयस्य गमकः स्यात् ? इति नास्ति व्यधिकरणो हेत्वाभासः । आश्रयासिद्धताऽपि न युक्ता । अस्ति सर्वज्ञः, चन्द्रोपरागादिज्ञानान्यथाऽनुपपत्तेरित्यादेरपि गमकत्वनिर्णयात् । कथमत्र सर्वज्ञधर्मिणः सिद्धिः ? इति चेत्, असिद्धिरपि कथमिति कध्यताम् ? | प्रमाणागोचरत्वादस्येति चेत्, एवं तर्हि तवापि तत्सिद्धिः कथं स्यात् ? । ननु को नाम सर्वज्ञधर्मिणमभ्यधात्, येनैष पर्यनुयोगः सोपयोगः स्यादिति चेत् । नैवम् । प्रमाणागोचरत्वादित्यतः सर्वज्ञो धर्मी न भवतीति सिषाधयि - षितत्वात् । अन्यथेदमम्बरं प्रति निशिततरतरवारिव्यापारप्रायं भवेत् ।
I
1
१०४
एवं च
आश्रयासिद्धता तेऽनुमाने न चेत्, साऽनुमाने मदीये तदा किं भवेत् ? । आश्रयासिद्धता तेऽनुमानेऽस्ति चेत्, साऽनुमाने मदीये तदा किं भवेत् ? ।
यदि त्वदीयानुमानेनाश्रयासिद्धिरस्ति तदा प्रकृतेऽप्यसौ मा भूद्;