________________
रत्नाकरावतारिकायुक्तः। १०५ धर्मिण उभयत्राप्यैक्यात् ; अन्यस्यास्य प्रकृतानुपयोगित्वात् । अथास्ति तत्राश्रयासिद्धिः तदा बाधकाभावात् एषा कथं मदीयेऽनुमाने स्यादिति भावः ।
तथा च
"विकल्पाद्धर्मिणः सिद्धिः क्रियतेऽथ निषिध्यते । द्विधाऽपि धर्मिणः सिद्धिर्विकल्पात्ते समागता" ॥ १ ॥ द्वयमपि नास्मि करोमीत्यप्यनभिधेयम् , विधिप्रतिषेधयोर्युगपद्विधानस्य प्रतिषेधस्य चासंभवात् । यदि च द्वयमपि न करोषि, तदा व्यक्तममूल्यक्रयी कथं नोपहासाय जायसे ?; तथातायामाश्रयासिद्ध्युद्भावनाऽघटनात्। ननु यदि विकल्पसिद्धेऽपि धर्मिणि प्रमाणमन्वेषणीयम् , तदा प्रमाणसिद्धेऽपि प्रमाणान्तरमन्विष्यताम् ; अन्यथा तु विकल्पसिद्धेऽपि पर्याप्तं प्रमाणान्वेषणेन, अहमहमिकया प्रमाणलक्षणपरीक्षणं परीक्षकाणामकक्षीकरणीयं च स्यात् ; तावन्मात्रेणैव सर्वस्यापि सिद्धेः । तथा च चाक्षुषत्वादिरपि शब्दानित्यत्वे साध्ये सम्यग्घेतुरेव भवेदिति चेत्। तदत्यल्पम्। विकल्पाद्धि सत्त्वासत्त्वसाधारणं धर्मिमात्रं प्रतीयते, न तु तावन्मात्रेणैव तदस्तित्वस्यापि प्रतीतिरस्ति, यतोऽनुमानाऽनर्थक्यं भवेत् ; अन्यथा पृथिवीधरसाक्षात्कारे कृशानुमत्त्वसाधनमप्यपार्थकं भवेत् । तस्याग्निमतोऽनग्निमतो वा प्रत्यक्षेणैव प्रेक्षणात्।अग्निमत्त्वाऽनग्निमत्त्वविशेषशून्यस्य शैलमात्रस्य प्रत्यक्षेण परिच्छेदाद् नानुमानानर्थक्यमिति चेत्। तद्यस्तित्वनास्तित्वविशेषशून्यस्य सर्वज्ञमात्रस्य विकल्पेनाऽऽकलनात् कथमत्राप्यनुमानानर्थक्यं स्यात् ? । अस्तित्वनास्तित्वव्यतिरेकेण कीदृशी सर्वज्ञमात्रसिद्धिरिति चेत् ?; अग्निमत्त्वानग्निमत्त्वव्यतिरेकेण क्षोणीधरमात्रसिद्धिरपि कीदृशी? इति वाच्यम्।क्षोणीधरोऽयमित्येतावन्मात्रज्ञप्तिरेवेति चेत् , इतरत्रापि सर्वज्ञ इत्येतावन्मात्रज्ञप्तिरेव साऽस्तु; केवलमेका प्रमाणलक्षणोपपन्नत्वात् प्रामाणिकी, तदन्या तु तद्विपर्ययाद्वैकल्पिकीति। ननु किमनेन दुर्भगाऽऽभरणभारायमाणेन विकल्पेन प्रामाणिकः कुर्यादिति चेत् । तद्युक्तम्। यतः प्रामा
१४