________________
प्राणनयतत्त्वालोकालङ्कारःणिकोऽपि षतर्कीपरितर्ककर्कशशेमुषीविशेषसङ्ख्यावद्विराजिराजसभायां खरविषाणमस्ति नास्ति वेति केनापि प्रसर्पहर्पोद्भुरकन्धरण साक्षेपं प्रत्याहतोऽवश्यं पुरुषाभिमानी किञ्चिद् ब्रूयाद् न तूष्णीमेव पुष्णीयात् ; अप्रकृतं च किमपि प्रलपन सनिकारं निस्सार्येत, प्रकृतभाषणे तु विकल्पसिद्धं धर्मिणं विहाय काऽन्या गतिरास्ते ?। अप्रामाणिके वस्तुनि मूकवावदूकयोः कतरः श्रेयानिति स्वयमेव विवेचयन्तु तार्किकाः ? इति चेत्, ननु भवान् स्वोक्तमेव तावद्विवेचयतु, मूकतैव श्रेयसीति च पूत्करोति निष्प्रमाणके वस्तुनीति विकल्पसिद्धं धर्मिणं विधाय मूकताधर्म च विदधातीत्यनात्मज्ञशेखरः । तस्मात्प्रामाणिकेनापि स्वीकर्तव्यैव कापि विकल्पसिद्धिः । न च सैव सर्वत्रास्तु, कृतं प्रमाणेनेति वाच्यम् । तदन्तरेण नियतव्यवस्थाऽयोगात्। एको विकल्पयति, अस्ति सर्वज्ञोऽन्यस्तु नास्तीति किमत्र प्रतिपद्यताम्?। प्रमाणमुद्राव्यवस्थापिते त्वन्यतरस्मिन् धर्मे दुर्द्धरोऽपि कः किं कुर्यात् ?। प्रमाणसिद्वयनहे तु धर्मिणि सर्वज्ञखपुष्पादौ विकल्पसिद्धिरपि साधीयसी; तार्किकचक्रचक्रवर्तिनामपि तथा व्यवहारदर्शनात्। एवं शब्दे चाक्षुषत्वमपि सिद्धयेदिति चेत् ?। सत्यम् । तद्विकल्पसिद्धं विधाय यदि तत्रास्तित्वं प्रमाणेन प्रसाधयितुं शक्यते, तदानीमस्तु नाम तत्सिद्धिः; न चैवम् तत्र प्रवर्तमानस्य सर्वस्य हेतोः प्रत्यक्षप्रतिक्षिप्तपक्षत्वेनाकक्षीकारार्हत्वात् ; ततः कथमस्तित्वाप्रसिद्धौ शब्दे चाक्षुषत्वसिद्धिरस्तु ? । एवं च नाश्रयासिद्धो हेत्वाभासः समस्तीति स्थितम्॥ न चैवं विश्वस्य परिणामिकारणत्वादित्यस्यापि गमकता प्राप्नोति; अस्य स्वरूपासिद्धत्वात् प्रधानासिद्धौ विश्वस्य तत्परिणामित्वासिद्धेः। एवमाश्रयैकदेशासिद्धोऽपि न हेत्वाभासः। तर्हि प्रधानात्मानौ नित्यावकृतकत्वादित्ययमप्यात्मनीव प्रधानेऽपि नित्यत्वं गमयेत्। तदसत्यम्। नित्यत्वं खल्वाद्यन्तशून्यसद्रूपत्वम् , आद्यन्तविरहमानं वा विवक्षितम् । आद्येऽत्यन्ताभावेन व्यभिचारः, तस्याकृतकस्याप्यतद्रपत्वात् । द्वितीये सिद्धसाध्यता; अत्यन्ताभावरूपतया प्रधानस्याद्यन्तरहितत्वेन तदभाववादिभिरपि स्वीकारात् । तार्ह देव